________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
रसगङ्गाधरः ।
ब्दप्रयोगो भाक्तः । समता तु सर्वत्रानुचितैव । प्रतिपाद्योगटत्वानुगटत्वाभ्यामेकस्मिन्नेव पद्ये मार्गभेदस्येष्टत्वात् ।
यथा-
'निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रवमृडीका मधुमाधुरीमदपरीहारोहुराणां गिराम् । काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः ॥' अत्र पूर्वार्धे तृतीयचरणे च लोकोत्तरनिर्माणप्रतिपादके यो मार्गों न स चतुर्थचरणे कदर्यकाव्यप्रतिपादक इति वैषम्यमेव गुणः । ग्राम्यत्वकष्टत्वयोस्त्यागात्कान्तिसौकुमार्ययोर्गतार्थता । प्रसादेन चार्थव्यक्तेरिति । अर्थगुणेष्वपि श्लेषः । ओजस आद्यात्वारो भेदाश्र वैचित्र्यमारूपा न गुणान्तर्भावमर्हन्ति । अन्यथा प्रतिश्लोकमर्थवैचित्र्यवैलक्षण्यागुणभेदापत्तेः । अनधिकपदत्वात्मा प्रसादः, उक्तिवैचित्र्यवर्माधुर्यम्, अपारुष्यशरीरं सौकुमार्यम्, अग्राम्यरूपोदारता, वैषम्याभावलक्षणा समता, साभिप्रायत्वात्मकः पञ्चम ओजसः प्रकारः, स्वभावस्फुटत्वात्मिकार्थव्यक्तिः, स्फुटरसत्वरूपा कान्तिश्च, अनवीकृतत्वामङ्गलरूपाश्लीलग्राम्यभग्नप्रक्रमा.पुष्टार्थरूपाणां दोषाणां निराकरणेन स्वभावोक्त्यलंकारस्य रसध्वनिरसवदलंकारयोश्र स्वीकरणेन च गतार्थानि । समाधिस्तु कविगतः काव्यस्य कारणं न तु गुणः । प्रतिभाया अपि काव्यगुणत्वापत्तेः । योस्त्यागादिति । अत्रेदं चिन्त्यम् - कष्टत्वमोजोव्यञ्जकवर्णत्वम्, सुकुमारत्वं माधुर्यव्यञ्जकत्वम् । तथा चानयोः परस्परभावत्वाभावात्कथं तेनान्यस्यान्यथा सिद्धिरिति । अर्थव्यक्तेरित्यस्य गतार्थतेत्यस्यानुषङ्गः । इतिः शब्दगुणान्तर्भावादिसमाप्तौ । अन्यथा वैचित्र्यमात्ररूपत्वेऽपि गुणान्तर्भावे गुणभेदापत्तेरिति । एतेन चमत्कारानुगुणत्वरूपस्य वैचित्र्यस्य गुणत्वसाधकतेत्यपास्तम् । कान्तिश्चेत्यस्यैतानीति शेषः । अनधिकपदेत्यारभ्योक्तानीति तदर्थः । क्रमेणाह - अधिकेति । अर्थव्यक्तेः संग्रहायाह - स्वभाविति । कान्तेराह - रसेति । प्राधान्ये रसत्वमन्यथा रसवदलंकारत्वमिति भावः । समाधिस्त्विति । ज्ञानरूप इत्यर्थः । तस्यात्मगुणत्वादिति भावः । तदाह - कवीति । नतु गुण इति । अर्थस्य तत्कारणमिति शेषः । प्रतीति । तस्या अपि विषयता संबन्धेन
६३