SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । २७१ विश्रान्ति कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥' अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैलॊककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वरूपेण प्रकारेण ग्रहणमिति तत्रातिप्रसङ्गवारणायानेकप्रकारकमिति । ग्रहणमिति ग्रहणसमुदायो विवक्षितः । एकत्वं जातौ । अनेकग्रहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धेः । तेन द्वयोर्बहूनां वा ग्रहणं निमित्तवशादिति तु वस्तुकथनमात्रम् । उदाहरणम्'नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे त्युदारतरसिद्विदेत्यखिलसिद्धसंधैरपि । हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरियं । तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥' अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकग्रहीतृकवरगतिप्रदात्वाद्यनेकप्रकारकग्रहणसमुदायो गङ्गाविषयकरतिभावोपस्कारकः । शुद्ध एवात्रायमुल्लेखालंकारः । रूपकाद्यमिश्रणात् । लोकालोकस्य किंचिदंशे प्रकाश: किंचिदंशेऽप्रकाशः । धूल्याक्रान्तत्वे तु सर्वांशेनाप्रकाशत्वं गत इत्यर्थः । नन्वेवं बहुवचनौचित्येन कथमेकत्वमत आह-एकत्वमिति । अने. केति । एकस्य वस्तुनोऽनेकप्रकारकस्येत्यादिः । बहुवचनमविवक्षितमित्युक्तत्वादाहद्वयोरिति । नन्वेवमाप निमित्तवशादित्यधिकमत आह-निमित्तेति । न च 'कीर्ती विस्फूर्तिमत्यां ते मृणालक्षीरशङ्किनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोल्लोलनं मुहुः ॥' इति भ्रान्तिमददाहरणे एकस्या एव कीर्तेरनेकेन कुञ्जरभुजंगरूपेण ग्रहोत्रा मृणालक्षीररूपत्वानेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरासाय निमित्तभेदादित्यर्थकं निमित्तवशादित्यावश्यकम् । तत्र कीर्तिगतं धावल्यमेकमेवोल्लेख द्वयेऽपि निमित्तमिति वाच्यम् । स्वस्वप्रियाहारलिप्सारूपनिमित्तभेदस्यापि तत्र सत्त्वेन संग्राह्यत्वादिति भावः । वरेति । ब्रह्मसुखाप्तीत्यर्थः । स्वकीयेति। मन्दाकिनीत्यर्थः । उदारेति । उत्कृष्टतरेत्यर्थः । शन्तनो राज्ञः स्त्री गङ्गा मम तनोः शं कल्याणं सपदि तत्कालं तनोत्वित्यर्थः । लिप्सा लाभेच्छा। तस्यालंकारत्वायाह-गङ्गेति । कविनिष्टत्यादिः । अत्रेति । पद्य इत्यर्थः । उक्त इति शेषः । सुन्दरीति आलीति च संबोधने । नायिका प्रति सख्या नाय For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy