________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२५५
व्यङ्गतायामुदाहरणम् । यदपि तैरेव परोक्ति दूषयित्वा स्वयं परिणामस्य व्यङ्गचतायामुक्तम्
"चिराद्विषहसे तापं चित्त चिन्तां परित्यज । । नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ॥' अत्र चिरतापात प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व तनिषेवणादयं तव तापः शान्तिमेष्यतीति परिणामो व्यज्यते” इति ततुच्छम् । 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति स्वयमेवोक्तम् । तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूतं विषयताद्रूप्यम् । एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन तन्निषेवणादयं तव तापः शान्तिमेष्यतीति प्रकृतोपयोगिताया व्यङ्गयत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयताप्यरूपस्य परिणामस्य वाक्यवाच्यत्वात् शक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्गयत्वं वक्तुमुचितम् । इदं तूदाहरणं युक्तम्
'इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना ।
ममायं विषमस्तापः केन वा शमयिष्यते ॥' अत्र वक्तुर्विरहितयाव्यज्यमानरमणीवदनाभिन्नत्वेनेन्दुरभिप्रेतः । तेन रूपेणैव तस्य प्रकृतविरहसंतापशमनहेतुत्वात् । न चात्र विषयनिगरणात्मिकातिशयोक्तिर्वक्तुं शक्या । तस्या ह्यारोप्यमाणाभिन्नत्वेन विषयस्य प्रत्ययात् । यथा 'कमलं कनकलतायाम्' इत्यादौ कनकलताभिन्नायां वनितायां कमलाभिन्नं मुखमिति । इह तु मुखस्य चन्द्राभिन्नत्वेन प्रत्यये पुनर्विरहतापशमनरूपप्रकृतकार्यसिद्धिरिति चन्द्रस्यारोप्यमाणस्य मुखरूपविषयाभिन्नत्वं मृग्यम् । तच्च व्यङ्गयतायामेव भवतीति परिणामध्वनिरेवायम्, नातिशयोक्तिः। अयं त्वर्थशक्तिमूलः । विभावयेति। तैरेव अप्पदीक्षितैरेव । परोक्ति विद्यानाथोक्तिम् । तापात चित्तमिति शेषः । वैयाकरणमतेनाह-वाक्येति । नैयायिकमतेनाह-शक्येति । परेति। उत्कृष्टेत्यर्थः । बन्धुना विनेति । तादृशेन्दुरूपेण बन्धुनेत्यर्थः । तेनेति। तस्योद्दीप
For Private And Personal Use Only