SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। 'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि । शरीरिणां शरीराणि कमलानि न संशयः ॥' इत्यादौ श्लेषभित्तिकाभेदाध्यवसितधर्म विना धर्मान्तरस्य सर्वथैवास्फूतेश्च । नान्त्यः । सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः । न च सादृश्यस्य वाच्यतायामेवोपमाव्यपदेशः । 'नलिनप्रतिपक्षमाननम्' इत्यादी तदभावापत्तेः । किं च विद्वन्मानसहंस-' इत्यादौ श्लिष्टपरम्परितरूपके श्लेषनिष्पत्तौ श्लेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयोः सादृश्ये सिद्धे सदृशलक्षणामूलस्य भूपे हंसरूपकस्य सिद्धिः । तस्यां च सत्यां सरोमनोरूपार्थद्वयाभिधानलक्षणस्य श्लेषस्य निष्पत्तिरिति परस्पराश्रयः । नहि रूपकास्फूर्ती सरोरूपेऽर्थे मानसशब्दस्य तात्पर्य वेदयितुं किंचित्प्रमाणमवतरति । स्फुरिते तु रूपके तखटकसादृश्यान्यथानुपपत्तिरूपेण प्रमाणेनार्थद्वयादबोधफलकस्य तदुभयप्रतिपादनात्मनः श्लेपस्य निष्पत्तिः । अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रमणीया । सदृशलक्षणायाः फलं रूपके ताप्यप्रत्यय इत्यपि न हृदयंगमम् । तत्सदृश इति शब्दात्सादृश्यप्रत्यये सत्यपि ताद्रूप्यप्रत्ययापत्तेः” इत्याहुः। मेति। उपात्तधर्मान्याहादकत्वादिरित्यर्थः । तथानुभवे विसंवादादाह-अङ्कितानीति। अक्षाणीन्द्रियाणि । अक्षाः पद्माक्षाश्च । तत्समूहैाप्तानि । रोगसहितानि, सरोगामीनीत्यर्थः । श्लेषेति । शब्दश्लेषनिमित्तको यो विशेषणार्थयोरभेदाध्यवसायस्तद्विषयीभूतो यो धर्मस्तद्व्याप्तवसरोगत्वरूपस्तमित्यर्थः । एवमग्रेऽपि । एवं चात्र पौनरुक्त्यं दृढमिति भावः । शब्दोपात्तेति । लक्षणयेति भावः । तथा च रूपकोच्छेदापत्ति. रिति भावः । वाच्यतायामेवेति । शक्त्येति भावः । तदभावेति । प्रतिपक्षशब्दस्य न सादृश्ये शक्तिः । किं तु लक्षणेति भावः । इष्टापत्तावाह-किं चेति । वि. द्वदिति । 'विद्वन्मानसहंस वैरिकमलासंकोचशीतयुते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भारभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥' इत्यादावित्यर्थः । अत्र मानसमेव मानसमित्यादिश्लेषः । तस्यां रूपकसिद्धौ । तद्बटकेति । लक्ष्यतावच्छेदकेत्यर्थः । अर्थद्वयेति । सरोमनोरू. पेत्यादिः । प्राचोक्तमन्यत्खण्डयति--सदृशेति । नास्ति लक्षणेतीति। मास्तु लक्षणा। For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy