SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२ काव्यमाला। __ एवं च 'परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी । हंसावलीहारयुता शरद्विजयतेतराम् ॥' इत्यत्रोपमारूपकयोः साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा, विशेषणसमासस्फूर्ती तथाविधमेव रूपकमिति प्रथमयोजनैवाप्रकृतार्थावगतेर्द्धितीययोजनायाः 'परिफुल्लाब्जानीव नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु 'शरवर्षासखी बभौ' इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्रहत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्यावश्यकत्वात्प्रथमप्रादुर्भूतया नयनहासहाराक्षिप्तकामिनीरूपोपमानिकया अतएवैकदेशविवर्तिन्योपमयैव निर्वाह इति निवेदितमपि सहृदयप्रीतये पुनर्निवेदितम् । 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' इति कस्यचित्पद्ये प्रावृष एकदेशविवर्तिरूपकेणाङ्गनात्वसिद्धिरिति नोत्तरार्धगतार्थान्तरन्यासानुपपत्तिः । प्रथमचरणे तूपगृहनसाम्यादस्तु नाम समासोक्तिः। यत्तु कुवलयानन्दे “सारूप्यादपि समासोक्तिदृश्यते । यथा 'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां _ विपर्यासं यातो घनविरलभावः क्षितिरुहाम् । बहोर्टष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥' भेदानङ्गीकारे च । उपमेति । यथासंख्यमन्वयः । तदिति । संकरालंकारेत्यर्थः । चस्त्वर्थे । विशेषणेति । मयूरव्यंसकेतीत्यर्थः । तथाविधमेव एकदेशविवयैव । 'चर. णोऽस्त्रियाम्' इत्युक्तेर्नपुंसकत्वम् । तुरुक्तवैलक्षण्ये । एकदेशविवर्तीति । शान्ततडित्कटाक्षेत्यत्रत्येनेत्यर्थः । उपगृहनेति । आलिङ्गनेत्यर्थः । सारूप्यात सादृश्यात् । पुरेति । उत्तरराघवे सीतात्यागानन्तरं कदाचिद्वनं गतस्य श्रीरामस्योक्तिरियम् For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy