________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
काव्यमाला । स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । भवेद्विहसितं. चोपहसितं मध्यमे नरे ॥ नीचेऽपहसितं चातिहसितं परिकीर्तितम् । ईषत्फुल्लकपोलाभ्यां कटाक्षरप्यनुल्बणैः ॥ अदृश्यदशनो हासो मधुरः स्मितमुच्यते । वक्त्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः ॥ किंचिल्लक्षितदन्तश्च तदा हसितमिष्यते । सशब्दं मधुरं कालगतं वदनराग़वत् ।।
आकुञ्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः। निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ॥ उत्फुल्लनासिको हासो नाम्नोपहसितं मतम् । अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धजः ॥ शाङ्गदेवेन गदितो हासोऽपहसिताह्वयः । स्थूलकर्णकटुध्वानो बाप्पपूरप्लुतेक्षणः ।
करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥' इति । भयानको यथा'श्येनमम्बरतलादुपागतं शुष्यदाननबिलो विलोकयन् ।
कम्पमानतनुराकुलेक्षणः स्पन्दितुं नहि शशाक लावकः ॥' अत्र श्येन आलम्बनम् । सवेगापतनमुद्दीपनम् । आननशोषादयो. ऽनुभावाः । दैन्यादयः संचारिणः । बीभत्सो यथा
'नखैर्विदारितान्त्राणां शवानां पूयशोणितम् ।
आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ॥' दिति। अनुल्वणैरवृद्धैः। दशना दन्ताः। 'कालगतम्' इत्यपाठः। 'कायगतम्' इति पाठः । वदनेति । तल्लौहित्यविशिष्टम् । जिह्मेति । व्यधिकरणपदबहुव्रीहिः । आकम्पी कम्पमानौ स्कन्धमूधजौ यस्मिन् । स्थूलः कर्णकटुवा॑नः शब्दो यत्र । कराभ्यामुपगूढे व्याप्ते पार्श्व यत्र । शुष्यदाननमेव बिलं यस्य । लावकः पक्षिविशेषः । सवेगेति । वेगसहितमापतनमित्यर्थः । पूयेति समाहारद्वन्द्वः । आननेत्यस्य स्वेत्यादिः । तत्र तयोः । ननु
For Private And Personal Use Only