________________
षड्दर्शन समुचय भाग - २, श्लोक - ४५-४६, जैनदर्शन
અભાવ ભાવનો પરિહારકરી પોતાની સત્તા સિદ્ધ કરે છે. આમ જેમ છાયા અને આતપને તથા ભાવ અને અભાવને એકસાથે રહેવામાં વિરોધ છે. તેવા પ્રકારનો વિરોધ કેવલજ્ઞાનાદિ અને ક્ષુધાને એકસાથે ૨હેવામાં નથી. સાતા અને અસાતારૂપ વેદનીયકર્મનો ઉદય અંતર્મુહૂર્તે બદલાય છે. તેથી સાતાવેદનીયકર્મના ઉદયની જેમ અસાતાવેદનીયકર્મનો ઉદય પણ હોય જ છે. તથા કેવલજ્ઞાનિને અનંતવીર્ય હોવા છતાં પણ શરીરના બળનો અપચય અને ક્ષુધા વેદનીયની પીડા પણ હોય જ છે.
४३४
આથી કેવલજ્ઞાનિને ભોજન કરવામાત્રથી કંઈ બગડતું નથી. માત્ર કેવલજ્ઞાનિને કવલાહાર નહિ માનવામાં તમારો કદાગ્રહ કામ કરે છે.
यदुच्यते “वेदनीयस्योदीरणाभावात् प्रभूततरपुद्गलोदयाभावः, तदभावाञ्चात्यन्तं पीडाभावः” इति, तदयुक्तं, तुर्यादिगुणस्थानकेषु वेदनीयस्य गुणश्रेणीसद्भावात्, प्रचुरपुद्गलोदये सत्यपि तत्कृतपीडाल्पत्वस्यैव दर्शनात्, जिने सातोदयवत् प्रचुरपुद्रोदयाभावेऽपि तीव्रत्वप्रदर्शनाचेति । यदप्युच्यते " आहाराकाङ्क्षा क्षुत्, सा च परिग्रहबुद्धिः, सा च मोहनीयविकारः, तस्य चापगतत्वात्केवलिनो न भुक्तिः” इति, तदसम्यक्, यतो मोहनीयविपाकात्क्षुन्न भवति, तद्विपाकस्य प्रतिपक्षभावनानिवत्त्र्त्यमानत्वात्, क्रोधादीनां तथोपरमोपलब्धेः । तदुक्तं “उवसमेण हणे कोहं" [दश० वै० मा० ८/३९] इत्यादि । न तु क्षुद्वेदनीयं तद्वद्विपक्षभावनया निवर्त्त्यमानं दृष्टम्, अतो न मोहविपाकस्वभावा क्षुदिति । एतेन यदुच्यते - " अपवर्त्यते कृतार्थं, नायुर्ज्ञानादयो न हीयन्ते । जगदुपकृतावनन्तं, वीर्यं किं गततृषो भुक्तिः ।।१।। ” [केवलिभुक्ति० श्लो- १६] इत्यादि निरस्तं, एवंविधौदारिकत्वादिसामग्रीसद्भावेन छद्मस्थावस्थायामपि केवलिनोऽभुक्तिप्रसक्तेः । समस्तवीर्यान्तरायक्षयाभावच्छद्मस्थस्य भुक्तिरिति चेत्, तदयुक्तम् । यतः, किं तत्रायुष्कस्यापवर्तनं स्यात्किं वा चतुर्णां ज्ञानानां काचिद्धानिः स्यात्, येन भुक्तिः ? तेन यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि, यथासिद्धिगतेर्व्युपरतक्रियाध्यानचरमक्षणः कारणं एवं सम्यक्त्वादिकमपीति अनन्तवीर्यतापि तस्याहारग्रहणे न विरुध्यते । यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्ति एवमाहारक्रियापि विरोधाभावात् । न च बलवत्तरस्य वीर्यवतोऽल्पीयसी क्षुत्, व्यभिचारात् ।