________________
६४८
षड्दर्शन समुञ्चय भाग - २, श्लोक - ५७, जैनदर्शन
શંકા ? એક વસ્તુમાં એકસાથે ઉભયરૂપતા કેવી રીતે સંગત થાય છે ? અર્થાતુ એક વસ્તુમાં પરસ્પર વિરોધિધર્મો એકસાથે કેવી રીતે રહે, તે સમજાતું નથી ?
સમાધાન : આવું ન કહેવું. કારણ કે જેમ એક જ પુરુષમાં જુદી-જુદી અપેક્ષાઓના કારણે लघुत्व, गुरुत्व, बारात्प, वृद्धत्व, युक्त्य, पुत्रत्व, पितृत्व, गुरुत्व, शिष्यत्व माह ५२२५२ વિરુદ્ધધર્મો પણ હોય છે. તેમ એક જ વસ્તુમાં ભિન્ન-ભિન્ન અપેક્ષાના વશથી પરસ્પર વિરુદ્ધ એવા સત્ત્વ-અસત્ત્વ નિત્ય-અનિત્ય આદિ ધર્મોને માનવામાં વિરોધ નથી. તેથી વસ્તુઓમાં સર્વથા વિરોધ ઘટતો નથી. કથંચિતુવિરોધ છે, તે તો સર્વવસ્તુઓમાં તુલ્ય છે. તે કથંચિતું વિરોધના કારણે જ વસ્તુનો બીજવસ્તુથી ભેદ સિદ્ધ થાય છે. તેથી સર્વ વસ્તુઓમાં સમાનતયા રહેલો કથંચિતુવિરોધરૂપ ભેદ બાધક નથી.
तथा संशयोऽपि न युक्तः, सत्त्वासत्त्वयोः स्फुटरूपेणैव प्रतीयमानत्वात् । अदृढप्रतीतौ हि संशयः, यथा क्वचित्प्रदेशे स्थाणुपुरुषयोः । तथा यदुक्तं “अनवस्था" इति, तदप्यनुपासितगुरोर्वचः, यतः सत्त्वासत्त्वादयो वस्तुन एव धर्माः, न तु धर्माणां धर्माः, 'धर्माणां धर्मा न भवन्ति' इति वचनात् । न चैवमेकान्ताभ्युपगमादनेकान्तहानिः, अनेकान्तस्य सम्यगेकान्ताविनाभावित्वात्, अन्यथानेकान्तस्यैवाघटनात् नयार्पणादेकान्तस्य प्रमाणादनेकान्तस्यैवोपदेशात्, तथैव दृष्टेष्टाभ्यामविरुद्धस्य तस्य व्यवस्थितेः । किं च, प्रमाणार्पणया सत्त्वेऽपि सत्त्वासत्त्वकल्पनापि भवतु । न च तत्र कश्चनापि दोषः । ननूक्तमनवस्थेति चेत् ? न, यतः साप्यनेकान्तस्य भूषणं न दूषणं, अमूलक्षि(क्ष)तिकारित्वेन प्रत्युतानेकान्तस्योद्दीपकत्वात्, मूलक्षि(क्ष)तिकरी ह्यनवस्था दूषणम् । यदुक्तम्-“मूल क्षि(क्ष)तिकरीमाहुरनवस्थां हि दूषणम् । वस्त्वानन्त्येऽप्यशक्तौ च नानवस्थापि वार्यते ।।१।।" ततो यथा यथा सत्त्वेऽपि सत्त्वासत्वकल्पना विधीयते, तथा तथानेकान्तस्यैवोद्दीपनं न तु मूलवस्तुक्षि(क्ष)तिः । तथाहि-इह सर्वपदार्थानां स्वरूपेण सत्त्वं पररूपेण चासत्त्वम् । तत्र जीवस्य तावत्सामान्योपयोगः स्वरूपं, तस्य तल्लक्षणत्वात्, ततोऽन्योऽनुपयोगः पररूपम्, ताभ्यां सदसत्त्वे प्रतीयेते । तदुपयोगस्यापि विशेषतो ज्ञानस्य स्वार्थाकारव्यवसायः स्वरूपं, दर्शनस्यानाकारग्रहणं स्वरूपं, तद्विपरीतं तु पररूपम्, ततस्ताभ्यां तत्रापि सत्त्वासत्त्वे । तथा पुनर्ज्ञानस्यापि परोक्षस्यावैशचं प्रत्यक्षस्य वैशा स्वरूपं, दर्शनस्यापि चक्षुरचक्षुर्निमित्तं चक्षुराद्यालोचनं स्वरूपं, अवधिदर्शनस्याप्यवध्यालोचनं स्वरूपं, अन्यञ्च पररूपम्, । ततस्ताभ्यां तत्रापि