Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
षड्दर्शन समुचय, भाग - २, परिशिष्ट - ६, षड्दर्शन निर्णय
पञ्चविंशति तत्त्वज्ञो यत्र तत्राश्रमे रतः ।
जी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ।। इति ।।
मोक्षश्च प्रकृतिपुरुषयोर्विभागः । प्रत्यक्षानुमानशब्दानि त्रीणि प्रमाणानि ।
८९७
अत्र चायं विचारः । यद्यचेतना प्रकृतिस्तर्हि ततो बोधरूपा बुद्धिः कथमुत्पद्यते । अथ पुरुषाधिष्ठितेति प्रकृतिर्बुद्धिं जनयति तर्हि सा चेतनरूपा बुद्धिः पुरुषधर्म; प्रकृतिधर्मो वा ? पुरुषधर्मश्चेत् कथं प्रकृतित उत्पत्तिः । प्रकृतिधर्मश्चेत् कथं जडरूपप्रकृतेर्ज्ञानरूपबुद्धिधर्मः, विरोधात् । न हि सूर्याज्जायमानः प्रकाशस्तमसो धर्म इति वक्तुं शक्यम् । किञ्च यद्यकर्ता पुरुषस्तर्हि धर्ममधर्मं करिष्यामीति अध्यवसायं को विधत्ते । प्रकृतिश्चेन्न तस्या अचेतनत्वात् । पुरुषश्चेन्न, तस्याकर्तृकत्वेन संमतत्वात् । ततोऽनादिः संसारोऽनादिः कर्मबद्धो जीव इति तत्त्वम् । “न कदाचिदनीदृशं जगत्” इति वचनप्रामाण्यात् । किञ्च, क्रियां विना तत्त्वज्ञानमात्रेण न हि कस्यापि मोक्षः । भुक्तिक्रियां विना तज्ज्ञानेन तृप्तेरयोगात् । उक्तं च
क्रिया फलप्रदा पुंसां न ज्ञानं केवलं क्वचित् ।
न हि स्त्रीभक्ष्यभोगज्ञो ज्ञानादेव सुखी भवेत् ।।
,
नैयायिकमते सृष्टिसंहारकारी नित्यः सर्वज्ञात व्यापकः शिवो देवः I प्रत्यक्षानुमानोपमानागमाश्चत्वारि प्रमाणानि । प्रमाण- प्रमेय-संशय-प्रयोजन- दृष्टान्त-सिद्धान्त-अवयवतर्क -निर्णय-वाद- जल्पवितण्डा - हेत्वाभास - छल-जाति-निग्रहस्थानानीति षोडश तत्त्वानि । एतेषां च परिज्ञानान्मोक्षावाप्तिः । नित्यसंवेद्यमानेन सुखेन विशिष्टात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य मोक्ष इति । एवं चैते पृच्छयाः । ननु नित्यः सन् शिवः सृष्टिसंहारावेकेन स्वभावेन विधत्ते स्वभावभेदेन वा ? । तत्र न तावदेकस्वभावेनैवेति वक्तुं शक्यम् । सृष्टिसंहारस्वभावयोः प्रद्योतान्धकारयोरिवातीवविरुद्धत्वात् । स्वभावान्तरेण तदा न नित्यः । स्वभावभेदेनाप्रच्युतानुत्पन्नस्थिरैकस्वभावस्य नित्यलक्षणस्य व्याघातात् । अथ नित्य एव भगवान् इच्छावशात् सृजति संहरति चेति । न, कामक्रोध-लोभ-दम्भ-गर्व-हर्षरूपोर्मिषट्करहितस्येच्छाया अप्यसंभवात् । किञ्च, सर्वज्ञोऽसौ स्वद्वेषिणः किं सृजति ? न हि शुद्धमार्गोच्छेदाय प्रेक्षावान् प्रवर्तते । अथ पूर्वमद्वेषिणः सृष्टाः पश्चाद् द्वेषिणो जायन्ते, तर्हि नासौ सर्वज्ञोऽनागततद्द्द्वेषभावाज्ञानात् । तथा यदि ईश्वरकर्तृकं जगत्' तदा किंकर्तृक' ईश्वर इत्यपि चिन्त्यम् । अनादिनिधनो भगवान् स्वभावसिद्ध इति नान्यकर्तृकस्तर्हि विश्वमपि तथैव स्वभावसिद्धमिति वदतां किं वक्त्रं वक्रीस्यात् । किञ्च नित्यस्य शिवस्य एका १. ईश्वरः कर्ता अस्य जगतः । तत् ईश्वरकर्तृकम् ।
२. कः कर्ता अस्य ईश्वरस्य स किंकर्तृक ईश्वरः ।

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544