Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 529
________________ ९०२ षड्दर्शन समुच्चय, भाग - २, परिशिष्ट - ६, षड्दर्शन निर्णय जीवितं यस्य धर्मार्थं धर्मा(ों) ज्ञानार्थमेव च । अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ।। शान्तिपर्वणि ।। तथाअनग्निमनिकेतं तमेकाहावसथाश्रयम् । विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ।।१।। . -मार्कण्डेयपुराणे [८७.२] रुचिस्तोत्रे ।। तथाअहिंसकः सत्यवक्ता सर्वसङ्गपराङ्मुखः । ब्रह्मचारी सवैराग्यो भिक्षुर्बोद्धमते गुरुः ।। अतः सारमितिमहाव्रतधरा धीरा भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ।।१।। [त्रिपष्टि. श. पु. २. ३. ८९६] ___ तथा क्षमा-मार्दवार्जव-मुक्ति तपः संयम-सत्त्व-शौचाकिञ्चन्य-ब्रह्मचर्यरूपः सर्वज्ञप्रणीतो दशविधो धर्मः । तथाहि अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दया दमः क्षान्तिः सर्वेषां धर्मसाधनम् ।।१।। [याज्ञवल्क्यस्मृतौ १. १२२] तथाअहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता । यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः । वृथा खादन्ति मांसानि नैष धर्मः प्रदर्श्यते ।। सुरा मत्स्या मधु-मांसासवाः कृशरोदने । धूर्तेः प्रवर्तितं ह्येतनतद् देवेषु कल्पितम् ।। कामान्मोहाच्च लोभाच्च लोक्यमेत(लोकोत) त् १. गुद्रिते तु ‘एकाहारगनाश्रगम्' इति पाठः ।

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544