Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 530
________________ षड्दर्शन समुशय, भाग - २, परिशिष्ट - ६, षड्दर्शन निर्णय ९०३ प्रवर्तितम् । विष्णुमेव हि जानन्ति सर्वयज्ञेषु ब्राह्मणाः । पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम् । याज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।। यच्चापि किञ्चित् कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् । महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ।। इति श्री महाभारते शान्तिपर्वणि तुलाधारजाजलिसंवादे । तथासत्यां वाचमहिंस्रां च वदेदनपवादिनीम् । 'क्ल्काऽपेतामपरुषामनृशंसामपैशुनाम् ।।१।। तथाब्रह्मचर्यमहिंसा च शारीरं तप उच्यते । वाङ्मनोनियमः साम्यं मानसं तप उच्यते ।। तथाआनृशंस्यं क्षमा शान्तिरहिंसा सत्यमार्जवम् । अद्रोहो नातिमानश्च हीस्तितिक्षा दमस्तथा । पन्थानो ब्रह्मणस्त्वेते एतैः प्राप्नोति यत्परम् ।। ___ - शान्तिपर्वणि । इत्येवं सर्वदर्शनसंमतदेवगुरुधर्मरूपस्य तत्त्वत्रयस्य सम्यक्स्वरूपं परिज्ञाय शेषमशेषकदाग्रहं मुक्त्वा प्रेक्षावता सर्वज्ञेयसारमेतत्त्रयमेव ज्ञेयं श्रद्धेयं समनुष्ठेयं चेति तथा सम्पद्यते सकलकल्याणाऽभ्युदयसमृद्धयः । कृतिरियं श्रीमद्अञ्चलगच्छेशश्रीमेरुतुङ्गसूरीन्द्राणाम् ।। छा ।। श्री ।। ।। छा ।। श्री ।। शुभं भत (भवतु) ।। छा ।। छा ।। ।। श्री ।। इति षड्दर्शननिर्णयः । सर्व सङ्ख्या १८१।४ । १.माया

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544