Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 528
________________ षड्दर्शन समुझय, भाग - २, परिशिष्ट - ६, षड्दर्शन निर्णय ९०१ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ।। योगसारेऽपिनिर्मलो निर्ममः शान्तः सर्वज्ञः शुभदः प्रभु । स एव भगवानेको देवो ज्ञेयो निरञ्जनः ।। व्योमरूपो जगनाथः क्रियाकालगुणोत्तरः संसारसृष्टिनिर्मुक्तः सर्वतेजो विलक्षणः ।। केवलज्ञानसम्पूर्णः केवलानन्दसंश्रितः । केवलध्यानगम्यश्च देवेशः सर्वदर्शने ।। अतस्तत्त्वमिदम्भवबीजाकुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णु र्वा हरो जिनो वा नमस्तस्मै ।। महादेवस्तोत्र ४४] ज्ञानतपः पात्रं सयंमी गुरुः । उक्तं चन विद्यया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ।। [याज्ञवल्क्यस्मृति, १.२००] तथाये क्षान्तदान्ताः श्रुतपूर्णकर्मा जितेन्द्रियाः प्राणिवधानिवृत्ताः । परिग्रहे सङ्कुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ।।१।। व्यासस्मृति, ४.५८] तथाविमुक्तं सर्वसंगेभ्यो मुनिमाकाशवत् स्थितम् । स्वस्थमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ।। अहेरिव गणादीतः सन्मानानरकादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ।।

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544