Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 525
________________ ८९८ षड्दर्शन समुशय, भाग- २, परिशिष्ट - ६, षड्दर्शन निर्णय मूर्तिस्त्रयो भागा ब्रह्माविष्णुमहेश्वरा इत्यपि न घटते । राजसादि-पृथग्गुणस्य भागत्रयस्य एकत्वनित्यत्वानुपपत्तेः । तथा यद्यसौ सर्वज्ञो व्यापकश्च तदा यत्र जीवस्तत्र शिवः, “सर्वं विष्णुमयं . जगद्वा” इति वचनाद्यथा सर्वजन्तूनां व्याप्यत्वं तथा सर्वज्ञत्वमपि किं न स्यात् । अन्यच्च, शिवमयत्वे विष्णुमयत्वे वा जगत आराध्याराधकादि-मुक्तामुक्तादिव्यवस्थाऽपि विशीर्येत । तस्माद् एतानि वाक्यानि एक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचंद्रवत् ।। [ब्रह्मबिन्दु उपनिषद् १२]] 'यादृक् पिण्डे तादृग् ब्रह्माण्डे' इत्यादीनि च शिवादिष्विव सर्वभूतेष्वदुष्टधीप्रतिपादकानि मन्तव्यानि । न चायं शिवः पारदवत् खण्डतामवाप्य नानाभूतेषु चेष्टते । 'नैनं छिन्दन्ति शस्त्राणि' इति [भगवद्गीता २.२३] वचनाज्जीवस्य खंडत्वायोगात् । नापि निजांशान्नानारूपतया व्यापार्य विचित्रं चेष्टते इति वाच्यम् । यतस्तेंशास्ततो भिन्ना वाऽभिन्ना वा स्युः । भिन्नाश्चेत् खण्डतादोषः । अभिन्नाश्चेदेकस्मिन् सुखिनि दुःखिनि वा सर्वेऽपि सुखिनो दुःखिनो वा स्युः । तस्मान्निरञ्जनः सृष्टि-संहारानधिकारी सर्वज्ञः परमपदस्थः शिव इति । उक्तं च स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ।। ऊर्मिषट्काऽतिगं' रूपं तदाहुर्मनीषिणः ।। संसारबन्धानाधीन-क्लेशदुःखाद्यदूषितम् ।। इत्यादि [न्यायमञ्जरीनवमाह्निके] अन्यत्राप्युक्तम् न स्वधुनी न फणिनो न कपालदाम नेन्दोः कला न गिरिजा न जटा न भस्म । यत्रास्ति किञ्चिदपि नान्यदुपास्महे तद् रूपं पुराण-मुनि-शीलित'-मीश्वरस्य ।। वैशेषिकाणामपि देवः शिव एव । द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः षट् पदार्थाः । प्रत्यक्षानुमाने द्वे प्रमाणे । नवानां बुद्धि-सुख-दुखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-संस्काररूपविशेषगुणानामत्यन्तोच्छेदे मोक्ष इति । ते चैवं पर्यनुयोज्याः । ननु आगमाः प्रमाणमप्रमाणं वा । यद्यप्रमाणं १. अतिक्रान्तं । २. जीर्ण । ३. सेवित । ४. पृच्छयाः ।

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544