Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 523
________________ ८९६ षड्दर्शन समुशय, भाग - २, परिशिष्ट - ६, षड्दर्शन निर्णव सर्वदोपलम्भस्यानुपलम्भस्य वा प्रसंगात् । अन्यथा स्वभावहान्या अनित्यत्वापत्तेः । ततोऽपौरुषेया नित्यास्तु वेदा न भवन्तीति न ते प्रमाणम् । “वेदा अवेदा यज्ञा अयज्ञा” इति श्रुतिप्रामाण्यात् । गीतायामप्युक्तम् यामिमां पुष्पितां वाचं प्रवदन्ति विपिश्चितः । . .. .. वेदवादरताः पार्थ' नान्यदस्तीति वादिनः ।। कामात्मानः स (स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यफलं प्रति ।। भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।। त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ! ।। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।। (भगवद्गीता २.४२-४५) इति । किञ्च, सुधाभुजो देवा अतः कथं गोमेधादिषु हूयमाना गवादिपलं भुञ्जते । एवमेषामपि पलादत्वप्रसंगात् । न च यागादिक्रियाः स्वर्गं साधयन्ति । यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग नरके केन गम्यते ।। इति (भट्टारकशुकवचनात्) तस्माद् अहिंसा-संयम-तपोरूप आत्मयज्ञ एव स्वर्गादिसाधनम् । उक्तं च इंद्रियाणि पशून् कृत्वा वेदिं कृत्वा तपोमयीम् । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः ।। सांख्यमते अकर्ता निर्गुणो भोक्ता पुरुषः । गुणत्रयाणां साम्यावस्था प्रकृतिः । सा च प्रधानाव्यक्तसंज्ञाभ्यां वाच्या । प्रकृतेश्च महदुत्पद्यते बुद्धिरित्यर्थः । महतोऽहंकारः । अहङ्काराद् द्विधाएकादशक-दशकगणरूपा । तत्र एकादशकः । पञ्च बुद्धीन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्च । दशकगणश्च शब्द-रूप-गन्ध-रस-स्पर्शस्तेभ्यो नभस्तेजः पृथिव्यम्भोवायवः पञ्चभूतानीति पञ्चविंशति तत्त्वानि । तेषां ज्ञानान्मोक्षः । उक्तं च १. हे अर्जुन ! २. गति इति मुद्रितभगवद्गीतायाम् । ३. शाश्वतो यज्ञः ।

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544