Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
८९४
षड्दर्शन समुच्चय, भाग - २, परिशिष्ट - ६, षड्दर्शन निर्णय
तद्घटनात् । तस्माद् रागद्वेषपरिहाररूपसमतास्वीकार एव यतित्वम् । उक्तं च
वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सितेकर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ।।
[हितोपदेश, संधि ९० तथारागद्वैषौ यदि स्यातां तपसा किं प्रयोजनम् ? ।
तावेव यदि न स्यातां तपसां किं प्रयोजनम् ? ।। तथा बौद्ध-मीमांसक-साङ्ख्य-नैयायिक-वैशेषिक-जैनभेदेन षड्दर्शनानि । तत्र यद्यप्येतान्यात्मपुण्य-पापापवर्गादिसत्तावादितया सद्दर्शनानीति व्यवहारस्तथापि स्वस्वपक्षोत्कर्ष' परपक्षापकर्ष' कदाग्रहनिग्रहाय किमप्युच्यते ।
इह बौद्धानां बुद्धो देवता, चत्वारि दुःखादीन्यार्यसत्यानि । तत्र विज्ञानादयः पञ्चस्कंधाः, द्वादशायतनानि च दुःखम् । रागादीनामुदयहेतुरात्मीयभावाख्यः समुदयः । सर्वं क्षणिकमिति वासना मार्गः । ज्ञानसन्तानोच्छेदो मोक्षः । निरोधो मोक्ष इत्यर्थः । प्रत्यक्षानुमाने द्वे प्रमाणे । ____ एवं सति यदि बुद्धो देवताऽस्येति बौद्धत्वव्यपदेशस्तर्हि स बुद्धः संसारी वाऽसंसारी वा ? यदि संसारी तर्हि अस्मदादिवद् रागादिकलुषिततया न देवः । अथासंसारी तर्हि क्षणिकोऽक्षणिको वा ? क्षणिकश्चेन् नासंसारी । क्षणिकत्वादेव संतानोच्छेदाभावेन मोक्षाभावात् । अक्षणिकश्चेत् सन् वा असन् वा ? । संश्चेन् न, यत् सत् तत् क्षणिकमिति प्रतिज्ञाव्याघातात् । असंश्चेन्न प्रमाणम्, खरविषाणस्याप्यसतः प्रमाणत्वप्रसंगात् । तत एकान्तक्षणिकत्ववादिनां तेषां कथं बुद्धो देवतेति । किञ्च सर्वस्य क्षणिकत्वेऽभ्युपगम्यमाने मोक्षोपायप्रवृत्तिरपि न स्यात् । सर्वेषामपि ज्ञानक्षणानां निरन्वयनाशेन मोक्षफलोपभोगाभावात् । अथ ज्ञानसंतानोच्छेदस्यैव मोक्षत्वाभ्युपगमे मा भूत् कस्यापि मोक्षफलोपभोगाभाव इति चेत्, तर्हि सर्वजन्तूनामवसानकालस्वभावेनैव ज्ञानसंतानोच्छेदसम्भवात् स्वयं मोक्षे सति विशिष्टक्रियावैफल्यं भविष्यति । अथ स एव ज्ञानसंतानोऽन्यत्र देहान्तरं सङ्क्रामतीति नावसानकाले मोक्षप्रसङ्ग इति चेन्न, देहान्तरसङ्क्रमणस्यैवाघटनात् । तथाहि-दीपशिखासन्तानोऽपि स्वाधारपात्रं मुक्त्वा न पात्रान्तरे सङ्क्रामति । एवं ज्ञानसन्तानोऽपि स्वाधारदेहं मुक्त्वा नान्यं देहं सङ्क्रामति । कर्मवशात् संक्रामतीति चेन्न, येन ज्ञानक्षणेन पूर्वदेहे कृतं कर्म स स्वकर्म [आभुक्त्वा विनष्टः । अन्यत्रोत्पित्सुर्ज्ञानक्षणस्तु केन कर्मणा देहान्तरमाप्नोति ? पूर्वज्ञानक्षणकृतकर्मणेति चेन्न, अन्यस्य १. महत्त्वारापोण । २ अवर्णवाद ।

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544