Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 504
________________ षड्दर्शन समुचय, भाग - २, परिशिष्ट-३ अवचूर्णि - नैयायिकमत ८७७ चतुः प्रमाणि(ण) (णानां) नामानि । अथ प्रत्यक्षानुमानस्वरूपमाह - इन्द्रियं चार्थश्चेति तयोः संनिकर्षात् संयोगादुत्पन्नम्, इन्द्रियार्थयोहि नैकदा (ट्यात्) संयोगाज्ज्ञानम् । यदुक्तम् - "आत्मा सहे(है)ति मनसा मन इन्द्रियेण, स्वार्थेन चे (इ)न्द्रियम [मि]तिक्रम एव शीघ्रः । योगोऽयमेव मनसा किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ।।" अव्यभिचारि(र)कं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो व्यभिचारी । व्यवसायात्मकं व्यवहारसाधकं सजलधरणितले जलहारं(ज्ञान) व्यवहारासाधकत्वादप्रमाणम् । व्यपदेशो विपर्ययस्तेन रहितम् । तु पुनरनुमानं तत्पूर्व (व) प्रत्यक्षपूर्वं त्रिप्रकारम् ।।१७-१८।। __ पूर्ववच्छेषवत् सामान्यतो दृष्टम् । तत्र त्रिषु मध्ये कारणात् मेया(घात् कार्य) तवृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यमनुमानं निदर्शनेन द्रढयति ।।१९।। रोलम्बा भ्रमराः, गवलं माहिषं श्रृङ्गम्, व्याला: गजाः सर्वाश्च(वा), तमाला वृक्षाः, मलिना अर्थात् कृष्णा त्विट येषाम् । एवंप्राया इत्युपलक्षणेन परेऽत्युन्नतत्वर्जितत्वा-[ता]दयो विशेषा ज्ञेयाः ।।२०।। यथा[यञ्च] कार्यात्फलात् कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवत् । यथाविधप्रवहत्सलिलनदीपूरात् उपरिशिखरिशिखरोपरि जलाभिवर्षणज्ञानम् ।।२१।। च: पुनरर्थे । सामान्यतोदृष्टं तदनुमानं यथा पुंसि देवदत्तादौ देशान्तरत्वाप्तिर्गतिपूर्विका दृष्टा यथा उज्जयिन्याः प्रस्थिता[तो] माहिष्मती प्राप[प्तः] । तथा सूर्योदया (सूर्यस्य उदया) [सूर्यपि उदया] चलात् सायमस्ताचलगमनं [गमनं] ज्ञापयति ।।२२।। क्रमागतमपि शाब्दप्रमाणमुपेक्ष्य उपमानमाह-तदुपमानं यत्तदोनित्याभिसंबन्धात् । यत्, किंचिद् अप्रसिद्धस्य अज्ञायमानस्य अर्थस्य ज्ञापनं प्रसिद्धधर्मसाधादाबालगोपा-लाङ्गनाविदितात् क्रियते । साधर्म्य समानधर्मत्वम् । यथा अरण्यवासी चिरपरिचितगोगवयलक्षणो नागरिकेण गावा[गवोप]-लक्षणवता पृष्टो दृष्टान्तमदात् ।।२३।। तु पुनः । आप्तोऽवितथवादी हितश्च यो जनताथ्यो जनस्तस्य तथ्यो] हितोपदेशो देशनावाक्यं तच्छाब्दमागमप्रमाणम् । अथ प्रमाण (प्रमेय) लक्षणमाह [प्रमेयलक्षणमाश्रित्याह-अथ] प्रमाणग्राह्योऽर्थः प्रमेयम् । तुः पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन षण्णां प्रमेयार्थानां परिग्रहः । तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिना आत्मा अनुमीयते एवं देहादयः, अत्र तु ग्रन्थविस्तरतया नात्र प्रपञ्चिताः ।।२४।। संशयादिस्वरूपमाह । दूरावलोकनेन पदार्था(र्थ)परिच्छेदकधर्मेषु किमेतदिति सन्देहो वः स्थाणुर्वा पुरुषो वेति संशयः । अर्थत्वावणी (?) साध्यं कार्यं प्रति प्रवर्तते प्रतीत्य अध्याहार्यम् । न हि निष्फल: कार्यारम्भः इति ।।२५।। यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति उभयसम्मतत्वा[संशयत्वात्] । उक्तं च - "तावदेव

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544