Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
षड्दर्शन समुचय, भाग - २, परिशिष्ट - ३ अवचूर्णि - नैयायिक मत
रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि स्थूलरूपपदार्थस्य निराक्रियमाणत्वाद चेतन (त्वेन) परमाणव एव तात्त्विकाः । रागद्वेषमोहानां समस्तो गणो यस्मात् समुदेति संमुद्भवति । अयमात्मा अयमात्मीयः पदे पदसमुदायोपचारात्, अपरः (अयं परः) परकीयः इति भावो रागद्वेषनिबन्धनं स समुदयः ।। ६ ।।
८७६
सर्वेषां घटपटादीनां स एवायमिति ये संस्कारा ज्ञानसंतानास्ते क्षणिकाः, सर्वं सत् क्षणिकम् अक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्, एवं या वासना स मार्गः । तुशब्दः पश्चा (पाश्चात्यार्थसंग्रहार्थं पूर्वं समुचयार्थे । निरोधो मोक्षः । सर्वक्षणिकत्वनैरात्म्यवासनारूपः [मार्गः ] ।।७।।
पञ्चेन्द्रियाणि प्रसिद्धानि । शब्दरूपरसगन्धस्पर्शरूपाः विषयाः । मानसं चित्तम् धर्मायतनं धर्मप्रधानमायतनं चेत्यादि । एतानि द्वादशायतनानि तत्त्वानन्तरं निरूप्यन्ते ||८||
तथा सौगतदर्शने द्वे प्रमाणे । चः पुनरर्थे । अक्षमक्षं प्रतिगतं प्रत्यक्षम् ऐन्द्रियकम् । अनुमीयते ऽनुमानं लैङ्गिकम् । सम्यग्ज्ञानं निश्चितावबोधो द्विविध एव [ द्विधा यतः ] ।। ९ ।।
शब्दसंसर्गवती प्रतीतिः कल्पना तयापोढं रहितं निर्विकल्पकम् अभ्रान्तं भ्रान्तिरहितम्, रगरगायमाणपरमाणुलक्षणस्वरूपं [स्व] लक्षणं हि प्रत्यक्षं निर्विकल्पकम्, बाह्ये स्थूलपदार्थ[र्थगं तज्ज्ञानं ] गतं ज्ञानं सविकल्पकं भ्रान्तं च । तु पुनः त्रिरूपात् पक्षधर्मत्वं सपक्ष (क्षे) सत्त्व (त्त्वं) विपक्षव्यावृत्तिरूपात् लिङ्गतो धूमादेः धी[यत्] लिङ्गिनो वैश्वानरादेर्ज्ञानं तदनुमानन् । सूत्रे लक्षणं नेक्षणं [णीयं] तेन चरमपदस्य नवाक्षरत्वेऽपि न दोषः ।। १० ।।
साध्यधर्मविशिष्ट धर्मी पक्षः, यथा 'अद्रिरयं वह्निमान् धूमवत्त्वात् ' अत्र पर्वतः पक्षः धर्मत्वं वह्निमत्त्वं धूमवत्त्वेन व्याप्तम् । सपक्षे[क्ष ] सत्त्वमिति, यो यो धूमवान् स स अग्निमान् यथा महानसे, धूमवत्त्वेन हेतुना सपक्षे महानसे सत्वं वह्निमत्त्वम् । विपक्षे नास्तिता यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये वह्निमत्त्वं व्यावर्त्तमानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते ।।११।।
अयं संक्षेपो निवेदितः कथितः, बौद्धानां राद्धान्तः सिद्धान्तः [तस्य ] [ तद्वाच्यः ] यद्वाच्यम्, इतो नैयायिकस्य विशेषशैवशासनस्य ।। १२ ।।
[ नैयायिक मत ]
अक्षपादा नैयायिकाः । सृष्टिः प्राणी (णि)नां समु[नामुत्पत्तिः, संहारः तद्विनाशः तत्करोतीति । विश्वस्य हि कश्चित् स्रष्टा संहर्ता विज्ञेयः केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽप्यमात्वमिति [प्राणिगणस्यापारत्वात्] संहारकर्तापि कश्चिदभ्युपगन्तव्यः जगतः कार्यत्वाच्च । शिव ईश्वरः । विभुः [सर्व]व्यापकः । नित्यश्चासौ एकश्चेति [ अ ] प्रच्युतानुत्पन्नस्थिर ( रैक ) स्वभावं हि नित्यम्, एकोऽद्वितीयः बहूनां घटना[घटनां] युक्तेः । सर्वज्ञः स सर्वविशेषज्ञानात् [तात् ] शाश्वतबुद्धिस्थानम्, क्षणिकबुद्धित्वे हि पराधीनता ।। १३ ।।
अत्र नैयायिकमते प्रमाणादीनि षोडशतत्त्वानि यथाक्रमं व्याक्रियमाणानि । नामानि सुगमानि । एवम् अन प्रकारेण प्रकटनमार्यस्य[मर्थस्य ] पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणं चतुर्विधम् ।।१४ १६ ।।

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544