________________
षड्दर्शन समुचय, भाग - २, परिशिष्ट-३ अवचूर्णि - नैयायिकमत
८७७
चतुः प्रमाणि(ण) (णानां) नामानि । अथ प्रत्यक्षानुमानस्वरूपमाह - इन्द्रियं चार्थश्चेति तयोः संनिकर्षात् संयोगादुत्पन्नम्, इन्द्रियार्थयोहि नैकदा (ट्यात्) संयोगाज्ज्ञानम् । यदुक्तम् - "आत्मा सहे(है)ति मनसा मन इन्द्रियेण, स्वार्थेन चे (इ)न्द्रियम [मि]तिक्रम एव शीघ्रः । योगोऽयमेव मनसा किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ।।"
अव्यभिचारि(र)कं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो व्यभिचारी । व्यवसायात्मकं व्यवहारसाधकं सजलधरणितले जलहारं(ज्ञान) व्यवहारासाधकत्वादप्रमाणम् । व्यपदेशो विपर्ययस्तेन रहितम् । तु पुनरनुमानं तत्पूर्व (व) प्रत्यक्षपूर्वं त्रिप्रकारम् ।।१७-१८।। __ पूर्ववच्छेषवत् सामान्यतो दृष्टम् । तत्र त्रिषु मध्ये कारणात् मेया(घात् कार्य) तवृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यमनुमानं निदर्शनेन द्रढयति ।।१९।।
रोलम्बा भ्रमराः, गवलं माहिषं श्रृङ्गम्, व्याला: गजाः सर्वाश्च(वा), तमाला वृक्षाः, मलिना अर्थात् कृष्णा त्विट येषाम् । एवंप्राया इत्युपलक्षणेन परेऽत्युन्नतत्वर्जितत्वा-[ता]दयो विशेषा ज्ञेयाः ।।२०।।
यथा[यञ्च] कार्यात्फलात् कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवत् । यथाविधप्रवहत्सलिलनदीपूरात् उपरिशिखरिशिखरोपरि जलाभिवर्षणज्ञानम् ।।२१।।
च: पुनरर्थे । सामान्यतोदृष्टं तदनुमानं यथा पुंसि देवदत्तादौ देशान्तरत्वाप्तिर्गतिपूर्विका दृष्टा यथा उज्जयिन्याः प्रस्थिता[तो] माहिष्मती प्राप[प्तः] । तथा सूर्योदया (सूर्यस्य उदया) [सूर्यपि उदया] चलात् सायमस्ताचलगमनं [गमनं] ज्ञापयति ।।२२।।
क्रमागतमपि शाब्दप्रमाणमुपेक्ष्य उपमानमाह-तदुपमानं यत्तदोनित्याभिसंबन्धात् । यत्, किंचिद् अप्रसिद्धस्य अज्ञायमानस्य अर्थस्य ज्ञापनं प्रसिद्धधर्मसाधादाबालगोपा-लाङ्गनाविदितात् क्रियते । साधर्म्य समानधर्मत्वम् । यथा अरण्यवासी चिरपरिचितगोगवयलक्षणो नागरिकेण गावा[गवोप]-लक्षणवता पृष्टो दृष्टान्तमदात् ।।२३।।
तु पुनः । आप्तोऽवितथवादी हितश्च यो जनताथ्यो जनस्तस्य तथ्यो] हितोपदेशो देशनावाक्यं तच्छाब्दमागमप्रमाणम् । अथ प्रमाण (प्रमेय) लक्षणमाह [प्रमेयलक्षणमाश्रित्याह-अथ] प्रमाणग्राह्योऽर्थः प्रमेयम् । तुः पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन षण्णां प्रमेयार्थानां परिग्रहः । तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिना आत्मा अनुमीयते एवं देहादयः, अत्र तु ग्रन्थविस्तरतया नात्र प्रपञ्चिताः ।।२४।।
संशयादिस्वरूपमाह । दूरावलोकनेन पदार्था(र्थ)परिच्छेदकधर्मेषु किमेतदिति सन्देहो वः स्थाणुर्वा पुरुषो वेति संशयः । अर्थत्वावणी (?) साध्यं कार्यं प्रति प्रवर्तते प्रतीत्य अध्याहार्यम् । न हि निष्फल: कार्यारम्भः इति ।।२५।।
यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति उभयसम्मतत्वा[संशयत्वात्] । उक्तं च - "तावदेव