________________
८७८
षड्दर्शन समुअय, भाग - २, परिशिष्ट -३ अवचूणि - नैयायिकमत
चलत्यर्थो मन्तो विषयमागतः । तावन्नोत्तम्भते नैव दृष्टान्तो नावलम्ब्यते [वृत्तान्तेनावसन्ध्यते] ।” एष दृष्टान्तः । सिद्धान्तः पुनश्चतुर्धा-सर्वतन्त्रप्रतितन्त्र-अधिकरण-अभ्युपगमभेदात् । विशेषार्थो विस्तरग्रन्थादवसेयो नाममात्र-कथनम् ।।२६।। ___ प्रतिज्ञापक्षः वह्निमानयं सानुमान् । हेतुर्लिङ्गवचनं धूमवत्त्वात् । दृष्टान्त उदाहरणम्, यथा महानसमिति । उपनयो हेतोरुपसंहारकं वचनम्, धूमवांश्चायम् । निगमनं हेतूपदेशेन पुनः साधोपसंहरणम्, तद्वह्नि तस्माद् वह्निमान् पर्वत इत्यादि पञ्चावयवस्वरूपनिरूपणमवयवतत्त्वम्(ज्ञेयमिति) । दूराद् दृगगोचरे स्पष्टप्रतिभासाभावात् 'किमयं स्थाणुर्वा पुरुषो वा' इति संशयः, तदुपरमे काकादिपतनावलोकनेन आदिशब्दात् स्थाणुधर्मो[र्मा] ग्राह्यः, अत्र कीलकेन भाव्यम्, पुरुषस्य शिर:कम्पनहस्तचालनादिभावात् । स्थाणुरेवायं पुरुष एवायमिति यः प्रतीतिविषयः । [स निर्णयः ।।२७-२८ ।।
कथा प्रामाणिकी तस्या अभ्यासकारणं या सा वादः पक्षः प्रतिज्ञा प्रतिपक्षः प्रतिज्ञोपन्यासप्रतिपंथी तयोः संग्रहात्, निग्राहकजयपराजयानपेक्षगुरुविनेययोः ।।२९।।
विजयाभिलाषिणो वादिनः प्रतिवादि-नश्च प्रारब्धप्रमाणोपन्यासगोष्ठी छलं त्रिधा-वाक्छलम्, सामान्यछलम्, उपचारछलम् । जातयः २४ भेदाः । आदे(दिशब्दात्) निग्रहस्थानानि[दि] एतैः कृत्वा परपक्षनिराकरणं दूषणोत्पादेन[पादनेन] स्वमात[मत स्थापनेन स्व(स)जल्पः । सा वितण्डा, या वादिप्रयुक्तपक्षप्रतिरोधकप्रतिवादिन्यस्तप्रतिपक्षरहिता ।।३०।।
हेतुरूपवदाभासन्ते हेत्वाभासाः पञ्च । पक्षे(क्ष) धर्मत्वं नास्ति सोऽसिद्धः । विपक्षे सन् प्रतिपक्षे [सपक्षे] वा [चा] सन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः । प्रत्यक्षागमविरोध: कालात्ययापदिष्टः । विशेषाग्रहणं हेतुत्वेन प्रयुज्यमानं प्रकरणसमः । परोपन्यस्तवादे स्वाभिमतकल्पनया वचनविघातः छलम् । नवोदकः प्रत्यग्रोदक: नवसंख्यामारोप्य दूषयति । मञ्चाः क्रोशन्तीति छलम् । अदूषणान्यपि दूषणवदाभासन्ते आभासमात्रत्वादेव पक्षं न दूषयन्ति जातयः [जाति] साधर्म्यादि । 'अनित्यः शब्दः कृतकत्वात् घटवत्' वादिनेत्युक्ते प्रतिवाद्याह-नित्यः शब्दो निरवयवत्वादाकाशवत् । न चात्र हेतुः घटवदनित्यत्वे आकाशवनित्यत्वे नित्यत्वेऽप्याकाशवत् वास्ति ।।३१।।
येन केनचिद्रव्येण विपक्षो निगृह्यते तन्निग्रहस्थानम् । प्रतिज्ञाशब्दः संबध्यते - प्रतिज्ञाहानिः प्रतिज्ञासंन्यासः प्रतिज्ञाविरोध इत्यादि । हेतौ अनैकान्तिके कृते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तधर्मेऽभ्युपगच्छतः प्रतिज्ञाहानिनिग्रहस्थानम्, यथा अनित्यः शब्द ऐन्द्रियकत्वात् घटवदिति प्रतिज्ञा साधनाभासवादी वदन् परेण 'सामान्यमैन्द्रियकमपि नित्यं दृष्टम्' इति हेतावनेकान्ते कृते यद्येवं ब्रूयात् 'सामान्यवद् घटोऽपि नित्यो भवति' इति ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां त्यजेत् ‘पक्षसाधन-दूषणोद्धाराशक्त्या प्रतिज्ञामेव निढुवानस्य प्रतिज्ञासंन्यासो निग्रहस्थानम् । यथानित्यः शब्द ऐन्द्रियकत्वेन तथैव सामान्येनानैकान्तिकतायामुद्भावितायां यदि ब्रूयात् क एवमाह अनित्यः शब्द इति प्रतिज्ञासंन्यासः । प्रतिज्ञाहेत्वोविरोध: