________________
षड्दर्शन समुद्यय, भाग - २, परिशिष्ट - ३ अवचूर्णि - सांख्यमत
८७९
प्रतिज्ञाविरोधः निग्रहस्थानम् । यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति प्रतिज्ञाहेत्वोविरोधः । यदि गुणद्रव्यातिरिक्तं तदेयं प्रतिज्ञा विरुद्धाभिधानात् पराजीयते ।।३२।। पूर्वार्धं सुगमम् ।
[सांख्यमत सांख्याः क[का]पिलाः, अपि[आदि]पुरुषनिमित्तेयं संज्ञा । तदभीष्ट[भीष्टाश्च]पञ्च-विंशतितत्त्वादिभावानां संक्षेपः कथ्यते ।।३३।।
ईश्वरं देवता ये [तया] न मन्यन्ते केवलाध्या-त्मवादिनः । केचित्पुनः ईश्वरदेवताः । तेषामुभयेषामपि तत्त्वानां पञ्चविंशतिर्भवति । तत्त्वं ह्यपवर्गसाधकम् । यदुक्तम् - पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतिः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ।।३४ ।।
तावदिति प्रक्रमे । गुणत्रयम्, क्रमेण परिपाट्या विशेषयति । सत्त्वं प्रसाद[दः]कार्यलिङ्गम्, वदननयनादिप्रसन्नता जनिरजसि [त] तदा आनन्दपर्यायः । तमोगुणे वा[च] दैन्यं वयो वियता [चो विच्छायता] नेत्रसंकोचादि । एतेनैव [न च] आधिभौतिक-आध्यात्मिक-आधिदैवि-क[दैव] लक्षणं दुःखत्रयमाक्षिप्यते ।।३५।।
एतेषां सत्त्वरजस्तमसां[मोगुणानां] प्रीत्यप्रीतिरूपविषयरूपाणां[विषादरूपाणां] समतयावस्थितिः सा किल प्रकृतिरुच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या [शब्दवाच्याः] प्रकृतिः प्रधानमव्यक्तं चेति नामान्तरम् । शाश्वतभावतया प्रसिद्धा नित्या, नानापुरुषाश्रया या च प्रकृति: ।।३६।।।
ततो गुणत्रयाभिघातान्महानिति बुद्धि-रुत्पद्यते । एवमेतन्नान्यथा, गौरेवायं नाश्वः स्थाणुरेवायं न पुरुष इति निश्चयेन पदार्थप्रतिपत्तिः । तस्याः ८ रूपाणि-धर्मज्ञान-वैराग्यैश्वर्यरूपाणि सत्त्वभूतानि अधर्मादीनि चअसात्त्विकानि । ततो बुद्धेरहंकारोऽभिमानात्मकः तस्मादहंकारात् षोडशक-गणमाह ।।३७ ।।
बुद्धिप्रधानानि बुद्धिसहचराण्येवेति कृत्वा बुद्धीन्द्रियाणि । स्पर्शनं त्वगिन्द्रियम् । कर्म-क्रियासाधनानि इन्द्रियाणि कर्मेन्द्रियाणि । पायुरपानम् । उपस्थः प्रजननम् । वचः पाणिपादाः (हस्ताः) प्रसिद्धाः । मन एकादशम् । पञ्चत-न्मात्राणि शब्दरूपरसगन्धस्पर्शाख्यानि । एवं षोडशको गु(ग)णः ।।३८-३९।।
पञ्चभ्यस्तन्मात्रेभ्यो भूतपञ्चकम् । शब्दतन्मा-त्रादाकाशम्, शब्दो ह्यम्बरगुणः । स्पर्शतन्मात्राद्वायुः । रसतन्मात्रादापः । रूपतन्मात्रात्तेजः । गन्धतन्मात्राद्भूमिः । शब्दतन्मा-त्रासहितात् स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुणः । शब्दस्पर्शसहित-रूपतन्मात्रात्तेजः । शब्दस्पर्शरूपगुणम् । शब्दस्पर्शरूपगुण-सहित [रस] तन्मात्रादापः शब्दस्पर्शरूप[रस]गुणाः । शब्दस्पर्शरूपरससहितगन्धतन्मात्रात् पृथिवी शब्दस्पर्शरस[रूपगन्ध] गुणा जायते ।।४०।। प्रकृतेर्महानहंकारः पञ्चबुद्धीन्द्रियाणि [पञ्चकर्मेन्द्रियाणि] मनश्च पञ्च-तन्मात्राणि पञ्चभूतानि, २४ तत्त्वानि