Book Title: shaddarshan Samucchay Satik Sanuwad part 02
Author(s): Sanyamkirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 484
________________ षड्दर्शन समुश्शय, भाग - २, परिशिष्ट - २ लघुवृत्ति - जैनमत ८५७ मोक्षमवाप्यापि तीर्थनिकारादिसंभवे भूयो भूयो भवमवतरन्ति । यदाहुः - "ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।।" [ ] इति । न ते परमार्थतो मोक्षगतिभाजः, कर्मक्षयाभावात् । न हि तत्त्वतः कर्मक्षये पुनर्भवावतारः । यदुक्तम् - "दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे न रोहति भवाङ्करः ॥[ ] इति । उक्तं च श्रीसिद्धसेनदिवाकरपादैरपि भवाभिगामुकानां प्रबलमोहविजृम्भितम् । यथा "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरनिष्टम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।।"[ ] इति । अहँश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति । तत्त्वान्याह - जीवाजीवी तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ।।४७।। तन्मते जैनमते नव तत्त्वानि सम्भवन्तीति ज्ञेयम् । नामानि निगदसिद्धान्येव । जीवाजीवपुण्यतत्त्वमेवाह - तत्र ज्ञानादिधर्मेभ्यो भित्राभित्रो विवृत्तिमान् । कर्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ।।४।। चैतन्यलक्षणो जीवो, यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः ।।४९।। युग्मम् । तत्र जैनमते, चैतन्यलक्षणो जीव इति संबन्धः । विशेषणान्याह - ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति । ज्ञानमादिर्येषां धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मा गुणास्तेभ्योऽयं जीवश्चतुर्दशभेदोऽपि कथंचिद्भिन्नः कथंचिदभिन्न इत्यर्थः । एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेषु जीवेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिनत्वं ज्ञानादिभ्यः परापेक्षया पुनरज्ञानवत्त्वमिति भिन्नत्वम् । लेशतश्चेत्सर्वजीवेषु न ज्ञानवत्त्वं तदा जीवोऽजीवत्वं प्राप्नुयात् । तथा च सिद्धान्तः - "सबजीवाणं पि य गं अक्खरस्स अणन्तओ भागो निझग्याडिओ । जइ सो वि आवरेज्झा तो जीवो अजीवत्तं पाविजा । सुड वि मेहसमुदये होइ पहा चन्दसूराणम् ॥" तथा निवृत्तिमानिति । विवृत्तिः परिणाम: सास्यास्तीति मत्वर्थीयो मतुप् । सुरनरनारकतिर्यक्षु

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544