________________
षड्दर्शन समुश्शय, भाग - २, परिशिष्ट - २ लघुवृत्ति - जैनमत
८५७
मोक्षमवाप्यापि तीर्थनिकारादिसंभवे भूयो भूयो भवमवतरन्ति । यदाहुः -
"ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।।" [ ] इति । न ते परमार्थतो मोक्षगतिभाजः, कर्मक्षयाभावात् । न हि तत्त्वतः कर्मक्षये पुनर्भवावतारः । यदुक्तम् -
"दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्करः ।
कर्मबीजे तथा दग्धे न रोहति भवाङ्करः ॥[ ] इति । उक्तं च श्रीसिद्धसेनदिवाकरपादैरपि भवाभिगामुकानां प्रबलमोहविजृम्भितम् । यथा "दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरनिष्टम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।।"[ ] इति । अहँश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति । तत्त्वान्याह -
जीवाजीवी तथा पुण्यं पापमाश्रवसंवरौ ।
बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ।।४७।। तन्मते जैनमते नव तत्त्वानि सम्भवन्तीति ज्ञेयम् । नामानि निगदसिद्धान्येव । जीवाजीवपुण्यतत्त्वमेवाह -
तत्र ज्ञानादिधर्मेभ्यो भित्राभित्रो विवृत्तिमान् । कर्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ।।४।। चैतन्यलक्षणो जीवो, यश्चैतद्वैपरीत्यवान् ।
अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः ।।४९।। युग्मम् । तत्र जैनमते, चैतन्यलक्षणो जीव इति संबन्धः । विशेषणान्याह - ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति । ज्ञानमादिर्येषां धर्माणामिति ज्ञानदर्शनचारित्ररूपा धर्मा गुणास्तेभ्योऽयं जीवश्चतुर्दशभेदोऽपि कथंचिद्भिन्नः कथंचिदभिन्न इत्यर्थः । एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेषु जीवेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिनत्वं ज्ञानादिभ्यः परापेक्षया पुनरज्ञानवत्त्वमिति भिन्नत्वम् । लेशतश्चेत्सर्वजीवेषु न ज्ञानवत्त्वं तदा जीवोऽजीवत्वं प्राप्नुयात् । तथा च सिद्धान्तः - "सबजीवाणं पि य गं अक्खरस्स अणन्तओ भागो निझग्याडिओ ।
जइ सो वि आवरेज्झा तो जीवो अजीवत्तं पाविजा ।
सुड वि मेहसमुदये होइ पहा चन्दसूराणम् ॥" तथा निवृत्तिमानिति । विवृत्तिः परिणाम: सास्यास्तीति मत्वर्थीयो मतुप् । सुरनरनारकतिर्यक्षु