________________
७९०
षड्दर्शन समुश्चय भाग - २, श्लोक - ७६, मीमांसकदर्शन
व्याख्या-सदसदंशात्मके वस्तुनि प्रत्यक्षादीनि पञ्च प्रमाणानि सदंशं गृह्यते न पुनरसदंशं । प्रमाणाभावलक्षणस्त्वभावोऽसदंशं गृह्णीते न पुनः सदंशम् । अभावोऽपि प्रमाणाभावलक्षणो नास्तीत्यर्थस्यासनिकृष्टस्य प्रसिद्ध्यर्थं प्रमाणम् [शा० भा० ११] इति वचनात् । अन्ये पुनरभावाख्यं प्रमाणं त्रिधा वर्णयन्ति । प्रमाणपञ्चकाभावलक्षणोऽनन्तरोऽभावः १ प्रतिषिध्यमानाद्वा तदन्यज्ञानं २ आत्मा वा विषयग्रहणरूपेणानभिनिवृत्तभावः ३ । इति ततः प्रस्तुतश्लोकस्यायमर्थः प्रमाणपञ्चकं-प्रत्यक्षादिप्रमाणपञ्चकं यत्र-भूतलादावाधारे घटादेराधेयस्य ग्रहणाय न जायते-न प्रवर्तते, तत्रआधेयवर्जितस्याधारस्य ग्रहणेऽभावप्रमाणता-अभावस्य प्रामाण्यम् । एतेन निषिध्यमानात्तदन्यज्ञानमुक्तम् । तथा 'प्रमाणपञ्चकं यत्र' इति पदस्यात्रापि संबन्धाद्यत्र वस्तुरूपे-घटादेर्वस्तुनो रूपेऽसदंशे ग्राहकतया न जायते, तत्रासदंशेऽभावस्य प्रमाणता । एतेन प्रमाणपञ्चकाभाव उक्तः २ । तथा प्रमाणपञ्चकं 'वस्तुसत्तावबोधार्थ' घटादिवस्तुसत्ताया अवबोधाय न जायते-असदंशे न व्याप्रियते तत्र सत्तानवबोधेऽभावस्य प्रमाणता । अनेनात्मा विषयग्रहणरूपेण परिणत उक्तः ३ । एवमिहाभावप्रमाणं त्रिधा प्रदर्शितम् । तदुक्तम्-“प्रत्यक्षादेरनुत्पत्तिः, प्रमाणाभाव उच्यते । सात्मनो परिणामो वा, विज्ञानं वान्यवस्तुनि ।।१।।" [मी. श्लोक० अभाव श्लोक० ११] अत्र साशब्दोऽनुत्पत्तेर्विशेषणतया योज्य इति । सम्तिटीकायामभावप्रमाणं यथा त्रिधोपदर्शितं तथेहापि तद्दर्शितम् । रत्नाकरावतारिकायां तु प्रत्यक्षादेरनुत्पत्तिरित्यस्यैवोक्तस्य बलेन द्विधा तद्वर्णितमास्ते । तत्र सशब्दः पुल्लिङ्गः प्रमाणाभावस्य विशेषणं कार्य इति । तत्त्वं तु बहुश्रुता जानते । ટીકાનો ભાવાનુવાદ : વસ્તુ સદસદેશાત્મક = ભાવાભાવાત્મક હોય છે. અર્થાત્ વસ્તુમાં સદંશની જેમ અસદંશ પણ રહે છે. તેમાં પ્રત્યક્ષાદિ પાંચ પ્રમાણ વસ્તુનો સદંશ ગ્રહણ કરે છે. પરંતુ અસદંશને ગ્રહણ કરતા નથી. પ્રત્યક્ષાદિપ્રમાણપંચકના અભાવમાં પ્રવૃત્ત અભાવ પ્રમાણ વસ્તુના અસદેશને ગ્રહણ કરે છે. પરંતુ સદંશને ગ્રહણ કરતું નથી. કહ્યું પણ છે કે. “પ્રમાણોના અભાવને અભાવ પ્રમાણ કહે છે. તે “નાસ્તિ-નથી' આ અર્થની સિદ્ધિ કરે છે. આ અભાવને જાણવા માટે કોઈપણ પ્રકારના