________________
७४२
षड्दर्शन समुशय भाग- २, श्लोक - ६२-६३, वैशेषिक दर्शन
છે. અંત્યદુઃખ-સંવિજ્ઞાનવિરોધી છે. અર્થાત્ અંતિમદુઃખના સમ્યગુજ્ઞાનથી વિનાશ થાય છે. (અર્થાત્ તત્ત્વજ્ઞાનની બાદ પ્રારબ્ધ કર્મના ફળરૂપ અંતિમદુઃખને ઉત્પન્ન કરીને તત્ત્વજ્ઞાન દ્વારા અધર્મનો નાશ થઈ જાય છે. (૧૮).
પ્રયત્ન - ઉત્સાહ અર્થાતું કાર્ય કરવાનો પરિશ્રમ. તે પ્રયત્ન સુષુપ્તિઅવસ્થામાં શ્વાસોશ્વાસનો પ્રેરક છે. અર્થાત્ તે પ્રયત્ન સૂતી વખતે શ્વાસોશ્વાસ લેવામાં પ્રેરક બને છે તથા જાગ્રત અવસ્થામાં અંત:કરણને ઇન્દ્રિયો સાથે સંયોગ કરાવે છે. હિતની પ્રાપ્તિ અને અહિતના પરિહાર માટે ઉદ્યમ કરાવે છે. અને શરીરને ધારણ કરવામાં સહાયક થાય છે. (૧૯).
संस्कारो द्वेधा, भावना स्थितिस्थापकश्च, भावनाख्य आत्मगुणो ज्ञानजो ज्ञानहेतुश्च दृष्टानुभूतश्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानकार्योन्नीयमानसद्भावः, स्थितिस्थापकस्तु मूर्तिमद्रव्यगुणः स च घनावयवसंनिवेशविशिष्टं स्वमाश्रयं कालान्तरस्थायिनमन्यथाव्यवस्थितमपि प्रयत्नतः पूर्ववद्यथावस्थितं स्थापयतीति स्थितिस्थापक उच्यते । दृश्यते तालपत्रादेः प्रभूततरकालसंवेष्टितस्य प्रसार्यमुक्तस्य पुनस्तथैवावस्थानं संस्कारवशात् । एवं धनुःशाखाश्रृङ्गदन्तादिषु भुग्ना(मुक्ता)पवर्तितेषु च वस्रादिषु तस्य कार्य परिस्फुटमुपलभ्यते २० । प्रज्वलनात्मको द्वेषः यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते । द्रोहः क्रोधो मन्युरक्षमामर्ष इति द्वेषभेदाः २१ । स्नेहोऽपां विशेषगुणः संग्रहमृद्वादिहेतुः । अस्यापि गुरुत्ववत् नित्यानित्यत्वनिष्पत्तयः २२ । गुरुत्वं जलभूम्योः पतनकर्मकारणमप्रत्यक्षम् । तस्यावादिपरमाणुरूपादिवत् नित्यानित्यत्वनिष्पत्तयः २३ । द्रवत्वं स्यन्दनकर्मकारणं त्रिद्रव्यवृत्तिः । तद्वेधा, सहजं, नैमित्तिकं च । सहजमपां द्रवत्वम् । नैमित्तिकं तु पृथिवीतेजसोरग्निसंयोगजं यथा सर्पिषः सुवर्णत्रप्वादेश्चाग्निसंयोगाद्रवत्वमुत्पद्यते २४ । वेगः पृथिव्यप्तेजोवायुमनःसु मूर्तिमद्रव्येषु प्रयत्नाभिघातविशेषापेक्षात्कर्मणः समृत्पद्यते, नियतदिकक्रियाकार्यप्रबन्धहेतुः स्पर्शवदद्रव्यसंयोगविरोधी च । तत्र शरीरादिप्रयत्नाविर्भूतकर्मोत्पन्नवेगवशादिषोरपांतरालेऽपातः, स च नियतदिकक्रियाकार्यसंबन्धोनीयमानसद्भावः । लोष्टाद्यभिधातोत्पन्नकर्मोत्पाद्यस्तु शाखादौ वेगः । केचित्तु संस्कारस्य त्रिविधस्य भेदतया वेगं प्राहुः । तन्मते चतुर्विंशतिरेव गुणः, शौर्योदार्यकारुण्यदाक्षिण्योन्नत्यादीनां च गुणानामेष्वेव प्रयत्नबुद्ध्यादिषु गुणेष्वन्तर्भावान्नाधिक्यम् २५।।
स्पर्शादीनां गुणानां सर्वेषां गुणत्वाभिसंबन्धो द्रव्याश्रितत्वं निष्क्रियत्वमगुणत्वं च । तथा स्पर्शरसगन्धरूपपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगा मूर्तगुणाः । बुद्धिसुखदुःखेच्छा