________________
षड्दर्शन समुश्चय भाग - २, श्लोक -५५, जैनदर्शन
६०३
આ જ રીતે દેવદત્તગૃહારિવર્તિ ઘટ પણ, તેનાથી અન્ય સ્થાનવર્તિ અનંતાદ્રવ્યોથી વ્યાવૃત્ત થતો હોવાના કારણે પર-પર્યાયો અનંતા થઈ શકે છે.
તેથી ક્ષેત્રતઃ ઘટના સ્વપર્યાયો સ્ટોક છે અને પરપર્યાયો અસંખ્ય કે અનંતા છે. હવે કાલત: ઘટની વિવક્ષા કરવા દ્વારા ઘટની અનંતધર્માત્મકતા સિદ્ધ કરાય છે.
कालतस्तु नित्यतया स स्वद्रव्येणावर्तत वर्तते वर्तिष्यते च ततो न कुतोऽपि व्यावर्त्तते । स चैदंयुगीनत्वेन विवक्ष्यमाणस्तद्रूपत्वेनाऽस्ति नत्वतीतानागतादियुगवर्तित्वेन । अस्मिन् युगेऽपि स ऐषमस्त्यवर्षतयास्ति न पुनरतीतादिवर्षत्वादिना । ऐषमस्त्योऽपि स वासन्तिकतयाऽस्ति न पुनरन्यर्तुनिष्पन्नतया । तत्रापि नवत्वेन विद्यते न पुनः पुराणत्वेन । तत्राप्यद्यतनत्वेनाऽस्ति न पुनरनद्यतनत्वेन । तत्रापि वर्तमानक्षणतयास्ति न पुनरन्यक्षणतया । एवं कालतोऽसङ्ख्येयाः स्वपर्याया, एकस्य द्रव्यस्याऽसङ्ख्यकालस्थितिकत्वात् । अनन्तकालवर्तित्वविवक्षायां तु तेऽनन्ता अपि वाच्याः । परपर्यायास्तु विवक्षितकालादन्यकालवर्तिद्रव्येभ्यो अनन्तेभ्यो व्यावृत्तत्वेनानन्ता एव । भावतः पुनः स पीतवर्णेनाऽस्ति न पुनर्नीलादिवर्णैः । पीतोऽपि सोऽपरपीतद्रव्यापेक्षयैकगुणपीतः, स एव च तदपरापेक्षया द्विगुणपीतः, स एव च तदन्यापेक्षया त्रिगुणपीतः, एवं तावद्वक्तव्यं यावत्कस्यापि पीतद्रव्यस्यापेक्षयानन्तगुणपीतः । तथा स एवापरापेक्षयैकगुणहीनः, तदन्यापेक्षया द्विगुणहीन इत्यादि तावद्वक्तव्यं यावत्कस्याप्यपेक्षयानन्तगुणहीनपीतत्वेऽपि स भवति । तदेवं पीतत्वेनानन्ताः स्वपर्याया लब्धाः । पीतवर्णवत्तरतमयोगेनानन्तभेदेभ्यो नीलादिवर्णेभ्यो व्यावृत्तिरूपाः परपर्याया अप्यनन्ताः । एवं रसतोऽपि स्वमधुरादिरसापेक्षया पीतत्ववत्स्वपर्याया अनन्ता ज्ञातव्याः, नीलादित्ववत् क्षारादिपररसापेक्षया परपर्याया अप्यनन्ता अवसातव्याः । एवं सुरभिगन्धेनापि स्वपरपर्याया अनन्ता अवसातव्याः । एवं गुरुलघुमृदुखरशीतोष्णस्निग्धरूक्षस्पर्शाष्टकापेक्षयापि तरतमयोगेन प्रत्येकमनन्ताः स्वपरपर्याया अवगन्तव्याः, यत एकस्मिन्नप्यनन्तप्रदेशके स्कन्धेऽष्टावपि स्पर्शाः प्राप्यन्त इति सिद्धान्ते प्रोचानम् । तेनात्रापि कलशेऽष्टानामभिधानम् । अथवा सुवर्णद्रव्येऽप्यनन्तकालेन पञ्चापि वर्णा द्वावपि गन्धौ षडपि रसा अष्टावपि स्पर्शाश्च सर्वेऽपि तरतमयोगेनानन्तशो भवन्ति । तत्तदपरापरवर्णादिभ्यो व्यावृत्तिश्च भवति । तदपेक्षयापि स्वपरधर्मा अनन्ता अवबोधव्याः ।