________________
६२०
षड्दर्शन समुश्चय भाग - २, श्लोक - ५५, जैनदर्शन
__ अपि च, सर्वं वस्तु प्रतिनियतस्वभावं, सा च प्रतिनियतस्वभावता प्रतियोग्यभावात्मकतोपनिबन्धना । ततो यावन्न प्रतियोगिविज्ञानं भवति तावन्नाधिकृतं वस्तु तदभावात्मकं तत्त्वतो ज्ञातुं शक्यते, तथा च सति पटादिपर्यायाणामपि घटप्रतियोगित्वात्तदपरिज्ञाने घटो न याथात्म्येनऽवगन्तुं शक्यत इति पटादिपर्याया अपि घटस्य पर्यायाः । तथा चात्र प्रयोगः-यदनुपलब्धौ यस्यानुपलब्धिः स तस्य सम्बन्धी, यथा घटस्य रूपादयः, पटादिपर्यायानुपलब्धौ च घटस्य न याथात्म्येनोपलब्धिरिति ते तस्य सम्बन्धिनः । न चायमसिद्धो हेतुः, पटादिपर्यायरूपप्रतियोग्यपरिज्ञाने तदभावात्मकस्य घटस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भाष्यकृत्-"जेसु अनाएसु तओ, न नज्जाएय नज्जाए य नाएसु । किह तस्स ते न धम्मा, घडस्स रूवाइधम्मव्व ।।१।।" तस्मात्पटादिपर्याया अपि घटस्य सम्बन्धिन इति । परपर्यायाश्च स्वपर्यायेभ्योऽनन्तगुणाः उभये तु स्वपरपर्यायाः सर्वद्रव्यपर्यायपरिमाणाः । न चैतदनाएं यत उक्तमाचाराङ्गे-“जे एगं जाणइ, से सव्वं जाणइ । जे सव्वं जाणइ, से एगं जाणइ ।” अस्यायमर्थः-य एकं वस्तूपलभते सर्वपर्यायैः स नियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितस्यैकस्य स्वपरपर्यायभेदभिन्नतया सर्वात्मनावगन्तुमशक्यत्वात्, यश्च सर्वं सर्वात्मना साक्षादुपलभते, स एकं स्वपरपर्यायभेदभिन्नं जानाति, अन्यत्राप्युक्त(A)म्-"एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः ।।१।।" ततः सिद्धं प्रमेयत्वादनन्तधर्मात्मकत्वं सकलस्य वस्तुन इति ।।५५।। ટીકાનો ભાવાનુવાદ: વળી સર્વવસ્તુઓ પ્રતિનિયત સ્વભાવવાળી હોય છે. સર્વવસ્તુઓમાં રહેલી પ્રતિનિયત સ્વભાવતા પ્રતિયોગિ અભાવાત્મકતાના કારણે હોય છે. કહેવાનો આશય એ છે કે દરેક વસ્તુ પ્રતિનિયત સ્વભાવવાળી હોય છે. તે પ્રતિનિયત સ્વભાવતા બીજી વસ્તુથી ભિન્ન હોવાના કારણે છે. અર્થાત્ જગતની સમસ્ત વસ્તુઓ પોત-પોતાના પ્રતિનિયતસ્વરૂપમાં સ્થિત છે, કોઈ પણ વસ્તુનું સ્વરૂપ બીજી વસ્તુઓથી મળતું આવતું નથી. તેથી તે તે વસ્તુનું સ્વરૂપ પોત-પોતાને સ્વાધીન છે. વસ્તુઓનું આ અસાધારણ સ્વરૂપ જે વસ્તુઓથી તેનું સ્વરૂપ ભિન્ન રહે છે, તે (A) उद्धृतोऽयम् - तत्वोप० पृ - ९८ । न्यायवा० ता- टी. पृ-३७