________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[ ५६
[जीवगुर्वीभिरद्यापीच्छापर्याप्तसुखरसाभिर्मदयन्तम् । धनऋद्धया श्रिया च सलिलोत्पन्नया वारुण्या च लोकम् ।।
प्राणेभ्योऽपि गुर्वीभिरादृताभिः । इच्छापर्याप्तो यावदिच्छं स्रक्चन्दनवनितादिसुखरसो याभ्यस्ताभिः । सलिलादुत्पन्नया रत्नादिधनसमृद्धया लक्ष्म्या मदिरया च लोकं मदयन्तम् । मत्तं कुर्वन्तमित्यर्थः । लोके रत्नादीनामतिमादकत्वात् । तथा चायमाकरो रत्नादीनामिति भावः । 'महणुप्पण्णाई' इति पाठे मथनोत्पन्नयेत्यर्थः ॥१७॥
विमला-प्राणों से भी अधिक महत्त्वपूर्ण एवं यथेच्छ सुखरस की प्रापति कराने वाली, (अपने) जल से उत्पन्न रत्नादि धन-समृद्धि, श्री तथा वारुणी से समुद्र लोक को मत्त करता है ॥१७॥ भथ गुणान्तरमाह
चडलं पि थिईअ थिरं तिप्रसुक्खित्तरअणं पिसारभहिअम् । महिअपि अणोलुग्गं प्रसाउसलिलं वि प्रमअरसणीसन्दम् ॥१८॥ [चटुलमपि स्थित्या स्थिरं त्रिदशोक्षिप्तरत्नमपि साराभ्यधिकम् । मथितमप्यनवरुग्णमस्वादुसलिलमप्यमृतरसनिःस्यन्दम् ॥]
तरङ्गादिना चञ्चलमपि स्थित्या मर्यादया स्थिरं वेलानतिक्रामकम् । त्रिदर्श-- रुत्क्षिप्तं मथनादुद्धृतं रत्नं यस्मात्तादृशमपि सारेण धनेनाभ्यधिक पूर्णम् । नानारत्नानां सत्त्वादेव मन्दरेण मथितमप्यक्षीणम् । लवणाकर त्वादस्वादुसलिलमपि निःस्यन्दमानामृतरसम् । कृदभिहितत्वात् । अत्र चटुलत्वस्थिरत्वयोरेवमुत्क्षिप्तरत्नत्वादिभिः साराभ्यधिकत्वादीनां प्रतीयमानो विरोधस्तत्तदर्थेनापाक्रियते । अत एवापिविरोधाभाससूचनाय ।।१८।।
विमला-(तरङ्ग आदि से) चंचल होता हुआ भी समुद्र (स्थित्या) मर्यादा से स्थिर है-वेला का अतिक्रमण नहीं करता है। देवों द्वारा (मथन कर) इसके रत्न ले लिये गये तथापि (नाना रत्नों की विद्यमानता से) सार (धन) से पूर्ण है । (मन्दराचल से) मथित होकर भी (अनवरुग्ण) अक्षीण है। (लावण्ययुक्त होने से): अस्वादु जल वाला होकर भी अमृतरस का निस्यन्द है ।।१८।। निधिशैलमाह
पज्जत्तरमणगब्भे णहरुपल्हत्थचन्दअरपारोहे। उपरभन्तरसेले सुरवइडिम्बणिहिए णिहि व्व वहन्तम् ॥१९॥ [पर्याप्तरत्नगर्भान्नभस्तरुपर्यस्तचन्द्रकरप्ररोहान् । उदराभ्यन्तरशलान्सुरपतिडिम्बनिहितानिधीनिव वहन्तम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org