________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[१२७
युष्माकमनुभूतादनुभवादपि । भावे क्तः । मम श्रुतमेव श्रुतमध्ययनं शास्त्रं वा तज्जन्यज्ञानमेव गुरु अधिकम् । अनुभूतात्कीदशात् । प्रत्यक्षात इन्द्रियप्रत्यासत्तिजन्यात् । श्रुतं कीदृशम् । परोक्षं इन्द्रियप्रत्यासत्यजन्यम् । एवं कथमपि कादाचिस्कतया तुलाग्रं काकतालीयसंवादस्तेन तन्न्यायेन घटितादुत्पन्नसंवादात् । आगमेन वेदपुराणादिना शुद्धमविसंवादिनिर्धारणरूपम् । तथा च संचालितम् । अहार्याप्रामाण्यशङ्कादोलायितमपि निष्कम्पमसकृत्संवादेन गृहीतप्रामाण्य मिति यथायोग्यमुभयविशेषणम् । तथा च तादृशानुभवस्यानुमानादिजन्यपरोक्षज्ञानापेक्षयान्तरङ्गेन्द्रिय प्रत्यासत्तिजन्यत्वेनौत्सर्गिकगौरवसामग्रीसत्त्वेऽपि सदोषपुरुषसंबन्धित्वेनौत्सर्गिकभ्रमत्वेन कादाचित्कसंवादित्वम् अतस्तदपेक्षया मदीश्रुतजन्यज्ञानस्य परोक्षरूपत्वेऽपि निर्दोषपुरुषप्रणीतागमसापेक्षत्वेन सर्वथासंवादित्वमिति मदुक्त्यनुसारेण व्यवहर्तव्यमिति समस्ताखण्डलकार्थः ॥२७॥
विमला-मेरा शास्त्रजन्य ज्ञान परोक्ष होता हुआ भी वेद-पुराणादि-सम्मत एवं शुद्ध है। यह संचालित है अर्थात इसके विषय में यह संशय हो सकता है कि यह स्थिर है अथवा अप्रामाणिक है, तथापि निष्कम्प ( अटल ) है। यह उस अनुभूत प्रत्यक्ष ज्ञान से कहीं गौरवशाली है जो काकतालीय न्याय से कभीकभी ही अनुकूल सिद्ध होता है ॥२७।। दशकन्धरे वैरिणि परस्परनिरपेक्षं सामर्थमप्रयोजकमिति 'संहतिः कार्यसाधिका' इति मदीयश्रुतानुसारेण सर्वे मिलित्वा व्यवहरन्तु न पृथक्पृथगित्याह
जं साहेन्ति समत्था समसारपरक्कमा ण तं णिम्वडिआ। एको पअवेज्ज वढं मिलिआ उण विणअरा खवेन्ति तिहुअणम् ।।२८।। [ यत्साधयन्ति समस्ताः समसारपराक्रमा न 'तन्निर्वलिताः'।
एकः प्रतपेढ्ढं मिलिताः पुनर्दिनकराः क्षपयन्ति त्रिभुवनम् ॥]
समौ तुल्यौ बालपराक्रमी येषां ते समस्ता मिलिताः सन्तो यत्कार्य साधयन्ति निर्वाहयन्ति अत एव निर्वलिता: परस्परं पृथक्पृथग्भूता एकाकिनः सन्तस्तदेव कार्य न साधयन्ति । न साधयितुं शक्नुवन्तीत्यर्थः । अत्र दृष्टान्तमाह-एको दिनकरस्त्रिभुवनं दृढं प्रतपेत् प्रतापयेत् परं मिलिताः पुनः समानशीला द्वादशदिनकराः प्रलये त्रैलोक्यमपि क्षपयन्ति भस्मसात्कुर्वन्ति । तथा चैकस्मात्संतापमात्रं मिलितेभ्यस्तु भस्मीभाव एवेत्येकाकिनैव मया साध्यमिति सुग्रीवोक्तमनुषङ्गेण दूषितवान् ॥२८॥
विमला-समान बल और पराक्रम वाले मिलकर जिस कार्य को सिद्ध कर लेते हैं, उसी को असंघटित होकर पृथक्-पृथक रूप से वे सिद्ध नहीं कर सकते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org