________________
पञ्चम आश्वासः अथ रामस्य विप्रलम्भावस्था प्रस्तौति
अह जलणिहिम्मि अहि मअणे अमिमदंसणविसम्भन्ते । विरहविहुरस्स णज्जइ पिसा बि रामस्स व ढिउं पाढत्ता ॥१॥ [अथ जलनिधावधिकं मदने च मृगाङ्कदर्शनविजृम्भमाणे ।
विरहविधुरस्य ज्ञायते निशापि रामस्य वर्धितुमारब्धा ।।] अथ विभीषणाभिषेकोत्तरं सीताविरहेण विधुरः क्लेशो यस्य तस्य रामस्य निशापि वधितुमारब्धा इति ज्ञायते । कस्मिन्सति । जलनिधौ मदने चाधिकं यथा स्यादेवं विजृम्भमाणे वर्धमाने सति । तथा च मृगाकोदयेन स्वभावतः समुद्रवृद्धिर्मादकत्वेन रामस्य कामवृद्धिरित्युभयथापि वेदनानुभवादुज्जागरेण रजनिवृद्धिराभासत इत्यर्थः । यद्वा चन्द्रोदयेन समुद्रवृद्धिस्तया च सर्वथा पारगमनव्यतिरेकज्ञानं तेन च विरहिणस्तस्य कामवृद्धिस्तया च वेदनाधिक्यं तस्मादुज्जागरणं तेन च रजनिवृद्धिभ्रम इति हेतुपरम्परालंकारः । निद्राच्छेदः कामावस्था। तदुक्तम्-'निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः' इति । अथ च शरदवसाने निशावृदयुपक्रम इत्यप्युक्तम् ॥११॥
विमला-विभीषण का अभिषेक हो चुकने पर तदनन्तर चन्द्रोदय से (स्वभावतः) समुद्र की, तथा ( मादक होने के कारण ) राम के काम की अत्यन्त अधिक वृद्धि होने पर विरहविधुर राम को ( रात में निद्रा न आने के कारण ) रात भी बढ़ने लगी-ऐसा आभास हुआ ॥१॥ अथ रामस्य प्रायोपवेशनमाह---- उइअमिप्रकच णहं णिप्रमठिअराहवं च सामरपुलिणम् ।
न्ति परं परिवढि आलिङ्गिअचन्दियं महोअहिसलिलम् ॥२॥ [उदितमृगाकं च नभो नियमस्थितराघवं च सागरपुलिनम् । नयतः परां परिवृद्धिमालिङ्गितचन्द्रिकं महोदधिसलिलम् ॥]
उदितश्चन्द्रो यत्र तन्नभः, नियमे प्रायोपवेशने स्थितो राघवो यत्र तच्च सागरपुलिनं द्वावप्याश्लिष्टचन्द्रिकं महोदधिसलिलं परां परिवृद्धि महत्त्वं नयतः प्रापयतः । गगनस्योदितमृगाङ्कत्वेन स्वभावादेव वृद्धिजनकत्वाज्जलस्य महत्त्वे हेतुत्वम्, पुलिनस्य तु नियमस्थित राघवत्वेन । एतावज्जलस्य महत्त्वं यदुद्दिश्य राघवोऽपि प्रायोपवेशनमाचरतीत्यर्थापत्त्या गौरवप्रयोजकत्वात् , कल्ये रामः किं करिष्यतीति क्षोभजन्यान्दोलनतो वृद्धिमेव प्रति निदानत्वाद्वेत्यर्थः । 'चन्द्रिकायां मः' ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org