________________
३४० ]
सेतुबन्धम्
[ नवम
माकाश को नापने में समर्थ है तथा उसका [ नितम्ब ] उपत्यका भाग प्रलयमारुत के संचार का प्रतिरोध कर सकता है ॥ ३ ॥ कधिस्तिर्यग्व्याप्तिमाह
दूरपरिपेल्लिअदिसं दूरोणामिअसमत्थपाआलअलम् । दूरअरुक्खित्तणहं णवर करासण्णपाअवप्फलकुसुमम् ॥ ४॥ [ दूरपरिप्रेरितदिशं दूरावनामितसमस्तपातालतलम् ।
दूरतरोत्क्षिप्तनभः केवलं करासन्नपादपफलकुसुमम् ।।]
एवं दूरं परिप्रेरिता दिशो येन । तिर्यक्सानुभिर्व्यापनात् । एवं दूरमवनामितमधःपातितं पातालतलं येन । तयापकमूलभागत्वात् । एवमतिदूरमुक्षिप्तमुत्तोलितं नभो येन । गगनातिक्रामकमस्तकत्वात् । केवलं करासन्नानि हस्तप्राप्याणि पादपानां फलकुसुमानि यत्र तमिति समृद्धवृक्षव्याप्तत्वम् । अत्रैव दूरत्वव्यभिचार इति परोपकृतिरूपगुणशालित्वम् ॥ ४॥
विमला-सुवेलगिरि ने ( अपने प्रसार से ) दिशाओं को ढकेल कर दूर भेज दिया है। ( अपने मूलभाग की व्यापकता से ) उसने पाताल को दबाकर नीचे अत्यन्त दूर कर दिया है। (शिरोभाग के गगनातिक्रामक होने से ) उसने नभ को बहुत ऊपर उठा दिया है। केवल (परोपकार-वश पादपों को दूर न हटा सकने से ) उस पर स्थित पादपों के पुष्प एवं फल इतने निकट हैं कि वे हाथ से भी लभ्य हैं ॥४॥ पुनर्मूलमौलिप्रकर्षमाहपासल्लागअसरिअं अमुक्कपाालसाअरजलुच्छङ्गम् । आइवराहुव्वत्तणखणपडिउठिअं व मेणिवेढम् ॥ ५॥ [पार्वागतसरितममुक्तपातालसागरजलोत्सङ्गम् ।
आदिवराहोद्वर्तनक्षणपतितोलस्थितमिव मेदिनीवेष्टम् ॥] एवं पाइँनागताः सरितो यस्य तम् । उपरि मेघादीनामपि संचाराभावात्सरि तामत्यभाव इति । एवम् अमुक्तोऽत्यक्तः पातालसागरस्योत्सङ्गो येन । तदन्तर्व तिमूलकत्वात् । एवं कमिव । पूर्वनिपातवपरीत्येन पतितस्यादिवराहस्योद्वर्तनक्षणे ऊर्वीभूय स्थितं मेदिनीवेष्टं भूम्येकदेश मिव । यदा आदिवराहः पातालपङ्के पतित सन्पार्श्वपरिवर्तनं कृतवान्, तदा तत्पार्श्वप्रेरितः पङ्कोत्करो गगनमभिव्याप्य स्थितः स एवेदानीमपि सरिबुद्धिसमर्पकप्रसरज्जलः पातालस्थसमुद्रजलस्पर्शात्पिण्डीभूब सुवेलत्वेन प्रतिभासत इति तद्देहे महत्त्वानुसारेण पङ्कोत्करमहत्त्वं सुवेलस्यैव महत्त्व गमयति । सर्वमिदमौत्प्रेक्षिकमिति भावः । यदा आदिवराहस्योद्वर्तनामितस्तत परिभ्रमणं, तत्क्षणे पतितं सदूध्वं व्याप्य स्थितं दन्तस्थं मेदिन्या बेष्टं मण्डल मिवेत्यर्थः । उद्वर्तनक्षणे वलितोर्वे स्थितं मेदिनीवेष्टमिवेत्यपि कश्चित् ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org