________________
६०६ ]
सेतुबन्धम्
[ चतुर्दश
दाहोत्तरं जले क्षिप्तं यदायसं लौहं तद्वन्नीलाः । एवम् - विषानलस्फुलिङ्गः प्रज्व लितं दीप्तं मुखं येषां ते । अत एवापूर्वनाराचानामाग्नेयादीनामिव विभ्रमो विलासो येषाम् । यद्वा - विशिष्टभ्रमो येभ्यस्ते । सर्पः परमार्थशरो न भवतीति भावः ||१६||
विमला - मेघनाद ने पुन: दूसरे भुजगरूप बाणों को धनुष पर चढ़ा कर छोड़ा। वे उस समय आग में तपाने के बाद जल में छोड़े गये लोहे के समान नील तथा विषाग्नि की चिनगारियों से दीप्तमुख हो धनुष से निकले अतः उन्हें देख कर अपूर्व (आग्नेय) बाणों का भ्रम होता था || १६||
अथैषां पतनमाह —
णिवडन्ति विज्जुमुहला तारसमम्भहिलोहलट्ठिच्छाआ । कसणजलओअराहि व रक्खसमाअन्ध अरिअणहाहि सरा ॥२०॥ [ निपतन्ति विद्युन्मुखरास्तालसमभ्यधिकलौहयष्टिच्छायाः । कृष्णजलदोदरादिव राक्षसमायान्धकारितनभसः शराः ।। ]
राक्षस माययान्धकारितान्नभसो विद्युत इव मुखराः शब्दायमानाः शरा भुजङ्ग - रूपा निपतन्ति । राघवयोर्देह इत्यर्थात् । कृष्णो जलद उदरे येषां तस्मादिवेति नभोविशेषणम्, तमसो जलदेनौपम्यात् । अत एव विषाग्निकपिशत्वेन शराणां विद्युद्भिः साम्यम् । विद्युन्मेघान्निपततीति प्रकृतोऽर्थः । नीलमेघानामुदरादिवेति संमुख एवोपमा, तमोविशिष्टनभसो मेघेन तुल्यत्वादिति वा । शराः किंभूताः । तालवृक्षात्समभ्यधिका महत्यो या लोहयष्टयस्तच्छाया कान्तिर्येषां ते । अग्निमुखत्वेऽपि श्यामत्वाद्दीर्घत्वाच्चेति भावः ॥२०॥
विमला - राक्षस ( मेघनाद ) की माया से अन्धकारपूर्ण कर दिये गये आकाश से, काले बादल के भीतर से विद्युत् के समान शब्द करते हुये, ताड़वृक्ष से भी अधिक बड़े लौहदण्ड की कान्ति वाले वे भुजारूप बाण राम और लक्ष्मण के शरीर पर गिरने लगे ||२०||
अथैषां नानारूपतामाह
पढमं रविबिम्बणिहा पलउक्कासंणिहा हुद्ध पडन्ता ।
भिन्दन्ता होन्ति सरा दरणिभिण्णभमिया भुप्रासु भुअङ्गा ॥ २१ ॥ [ प्रथमं रविबिम्बनिभाः प्रलयोल्कासंनिभा नभोऽर्धपतन्तः ।
भिन्दन्तो भवन्ति शरा दरनिभिन्न भ्रमणशीला भुजासु भुजङ्गाः ॥ ] ते शराः प्रथमं नभः शिखरे दृश्यमानाः सन्तो रविविम्बतुल्या भवन्ति । विषाग्निमयत्वे सति गगनमूलवर्तित्वात् । अथ नभसोऽर्धात्पतन्तः सन्तः प्रलयो - -काभिः संनिभा मुखेनाग्निमयत्वे सति भोगेन दण्डायमानत्वात् । अथ । भुजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org