________________
६६२ ]
सेतुबन्धम्
[ वेगपतितेन तेन च तथा धीरोऽपि परिकम्पितो रघुनाथः । कम्पितं त्रैलोक्यम् ॥ ]
यथानेन
आत्मनिर्विशेषं सकलं वेगात्पतितेन तेन च शरेण धीरोऽपि रघुनाथस्तथा कम्पितो यथानेन रचुनायेनात्मनिविशेषं सदृशं यथा स्यादेवं सकलं त्रैलोक्यं कम्पितम् । रामविपत्तिशङ्कि - त्वादिति भावः । वस्तुतस्तु आत्मनो निर्विशेषमभिन्नमात्मस्वरूपं त्रैलोक्यं कम्पितम् । रामस्य विष्णुरूपत्वेन सर्वस्यापि तदात्मकत्वात्स्वकम्पे स्वाभिन्नकम्पो युज्यत एव । विश्वम्भरत्वेन वा तत्कम्पे त्रैलोक्यकम्प इति वयम् ||६५।।
विमला - वेग से पतित उस बाण से धीर होते हुये भी राम ऐसे काँप उठे कि ( उनकी विपत्ति के भय से ) उन्हीं के समान हो तीनों लोक काँप
गया ।। ६५ ।।
अथ रामशरत्यागमाह
रहुणाहस्स वि बाणो अणुपरिवाडिघडि अफ डि अकेऊरम् । दहवअणभुअणिहाअं तालवणक्खन्धपरिश्रएण अइगो || ६६ ॥ [ रघुनाथस्यापि बाणोऽनुपरिपाटिघटितस्फुटितकेयूरम् । दशवदनभुजनिघातं तालवनस्कन्धपरिचयेनातिगतः ॥ ]
[ पञ्चदश
रघुनाथस्यापि बाणस्तालवन स्कन्धेषु यः परिचयोऽभ्यासस्तेन दशवदनस्य भुजसमूहमतिगतोऽतिक्रम्य गतः । पुरा सप्ततालानेकदैवाभिनत्तद्रीत्यैव रावणस्य विशतिमपि बाहून्भित्त्वा गत इत्यर्थः । किंभूतम् । अनुपरिपाट्यानुक्रमेण घटिता एकाभिमुख्येन स्थिताः अथ च स्फुटिता बाणेनैव विद्धाः केयूरा येषु ( यस्मिन् ) तमित्यङ्गदस्थान एव भुजानभिनदित्याशयः ॥ ६६॥
विमला - राम के भी बाण को सात ताड़वृक्षों के तनों को एक साथ भेदने का अभ्यास पहिले हो चुका था, अतएव वह अनुक्रम से स्थित केयूरों को वेधता हुआ रावण की बीसों भुजाओं का एक साथ भेदन कर पार निकल गया ।। ६६ ।। अथ रावणस्य बाणत्यागे लाघवमाह
अण्णं संधिअबाणं रहसाट्ठिअणिराअवट्ठ अष्णम् ।
समअं रक्खसवइणो अण्णं सरलहुइप्रोअरं होइ धणुम् ||६७ || [ अन्यत्संधितबाणं रभसाकृष्ट निरायतपृष्ठमन्यत् ।
समं राक्षसपतेरन्यल्लघुकृतोदरं भवति धनुः ॥ ]
राक्षसपतेर्धनुः सममेकदैव भवति । कीदृशम् । संतितबाणं सत् अन्यत् अन्यावस्थं समकोटिद्वयत्वात् । रभसेनाकृष्टत्वान्निरायत पृष्ठमुत्थापितपृष्ठं सदन्यत् कोटिद्वयनमनात् । शरैर्लघूकृतोदरं शरत्यागेन तुच्छोदरं सत् अन्यद्विकटोदरत्वात् । इति संधानाकर्षण त्यागानामेककालिकत्वेन शिक्षाकौशलमुक्तम् ॥६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org