________________
६१८] सेतुबन्धम्
[ चतुर्दश [ आबद्धबन्धुवरं यन्मया न नीता विभीषणं राजश्रीः ।
दुःखेनैतेन च ममाविभावितबाणवेदनारसं हृदयम् ।।]
आबद्धं बन्धुना रावणेन समं वरं येन । मदर्थमित्यर्थात । एतादृशं विभीषणं प्रति मया राज्ञो रावणस्य श्रीलङ्का प्रभुता यन्नानीता न प्रापिता। अयं राजा न कृत इत्यर्थः। एतेन दुःखेन मम हृदयमविभावितोऽपरिज्ञातो बाणवेदनारसो येन तथाभूतम् । अस्तीत्यध्याहारः । तथा च रावणभयादनेन लङ्कां( ङ्कायां ) न गन्तव्यमन्यत्र स्थानमस्य नास्त्येवेति मरण दुःखादपि महदुःखमिति भावः ॥४७॥
विमला-किन्तु ( मेरे लिये ) जिसने अपने बन्धु से वैर किया उस विभीषण को लङ्का की राजश्री न प्राप्त करा सका, इस बात से मेरे हृदय को जितना दुःख है उतना बाणों से विद्ध होने पर भी नहीं हुआ ॥४७॥ अथ सुग्रीव विसर्जनपरं तदाह
ता वच्चसु मा मुज्झसु तुरिअं तेणेअ सेउबन्धेण तुमम् । पेच्छसु बन्धववग्गं दुक्खं कालस्स जाणिउं परिणामम् ॥४८॥ [ तावद्वज मा मुह्य त्वरितं तेनैव सेतुबन्धेन त्वम् । प्रेक्षस्व बान्धववर्ग दुःखं कालस्य ज्ञात्वा परिणामम् ।।]
तावदिति वाक्योपसंहारे । हे सुग्रीव ! यावद्भवन्तोऽपि नाभिभूतास्तावत्त्वं तेनैव सेतुबन्धेन त्वरितं व्रज गृहाय गच्छ मा मुह्य । मोहं मा कुरुष्वेत्यर्थः । अथ वान्धववर्ग प्रेक्षस्व । कुल इत्यत आह-किं कृत्वा । कालस्य परिणामं दुःखं दुखहेतुं ज्ञात्वा । तथा च यत्र ममैवेयमवस्था, तत्र भवतां का गतिरिति भावः ॥४८।।
विमला-सुग्रीव ! समय का परिवर्तन ही दुःख का हेतु होता है-ऐसा जान कर तुम सेतुमार्ग से शीघ्र घर चले जाओ, मोह मत करो और बान्धववर्ग को देखो-इनके योगक्षेम की चिन्ता करो ।।४८॥ अथ सप्तभिः सुग्रीवोक्तिमाह
तो तिव्वरोसलङ्घिअविहुप्राणणदुक्खधरि अबाहुप्पीडो। रहुवइणो पडिवअणं भणइ अदाऊण वाणरे पवअवई ॥४६॥ [ ततस्तीवरोषलचितविधुताननदुःखधृतबाष्पोत्पीडः ।
रघुपतेः प्रतिवचनं भणत्यदत्त्वा वानारान्प्लवगपतिः ॥] ततो रामवचनादुत्तरं प्लवगपतिर्वानरान्भणति । किं कृत्वा । रघुपतेः कृते प्रतिवचनं प्रत्युत्तरमदत्त्वा । अयुक्तत्वादत एवातिरोषत्वाद्वा। किंभूतः । तीव्ररोषण लङ्घितमतिक्रान्तमत एव विधूतं कम्पितं यदाननं तेन दुःखेन धृतो बाष्पोत्पीडो येन स तथा । रामदुःखादुदश्रुरित्यर्थः ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org