Book Title: Setubandhmahakavyam
Author(s): Pravarsen, Ramnath Tripathi Shastri
Publisher: Krishnadas Academy Varanasi

View full book text
Previous | Next

Page 661
________________ ६४४ ] सेतुबन्धम् [पञ्चदश [ ततः कुम्भकर्णनिधनं श्रुत्वा दशाननः प्रहस्ताभ्यधिकम् । रोषातपरज्यमानं पुनरपि हसित्वा धुनोति सुखसंघातम् ।।] ततस्तत्पतनानन्तरं प्रहस्तनिधनादप्यधिक दुःखदत्वात्कुम्भकर्णस्य निधनं श्रत्वा दशाननः पुनरपि मुखसंघातं धुनोति । विषादेन' चालयतीत्यर्थः। किंभूतम् । रोषरूपेणातपेन तीक्ष्णत्वात् रज्यमानमरुणीक्रियमाणम् ।।२३।। विमला-प्रहस्त के निधन से भी अधिक दुःखद कुम्भकर्ण का निधन सुन कर रावण हँसा, तदनन्तर क्रोध से मुखसमूह को लाल कर (विषाद से ) पुनः कॅपाने लगा ।।२३।। अथ पुनरपि रावणप्रयाणमाहणिन्तस्स अ तं वेल अमरिसपरिवढिअस्स भवणुच्छङ्ग । खम्मन्तरवित्थारा ते चिअ वच्छत्थलस्स से ण पहुत्ता ॥२४॥ [ नियंतश्च तद्वेलायाममर्षपरिवधितस्य भवनोत्सङ्गे। स्तम्भान्तरविस्तारास्त एव वक्षःस्थलस्यास्य न प्रभूताः ।।] भवनस्योत्सङ्गे यैरेव पूर्वं गतागतं कृतं त एव स्तम्भयोरन्तरस्य मध्यस्य विस्तारा अवकाशास्तस्यां वेलायां निर्यतो युद्धाय प्रस्थितस्य वास्य रावणस्य वक्षःस्थलस्य न प्रभूता न परिमिताः । किंभूताः । (?) स्वल्पपरिमाणा बभूवुरित्यर्थः । अत्र हेतुमाह-किभूतस्य । · अमर्षेण परिवधितस्योत्फुल्लस्य । तथा च वक्षः स्थलोत्फुल्लतया स्तम्भान्तरेण हठानिर्गमनाभावादमङ्गलं सूचितम् ॥२४॥ विमला-भवन के भीतर खम्भों के बीच के जिन अवकाशों से रावण पहिले आया-जाया करता था, वे ही उस समय युद्ध के लिये प्रस्थित रावण के अमर्षपरिवर्धित वक्षःस्थल के लिये पर्याप्त न हो सके-छोटे पड़ गये, अतएव वह कठिनाई से निकल सका ॥२४॥ अथेन्द्रजिद्विज्ञप्तिमाहदरणिग्गअस्स णवरि अ उग्घाडिअवच्छभरिप्रभवणुच्छङ्गो। . जाणुपडिउटिओ से जम्पइ हसिऊण मेहणाओ त्ति सुओ॥२५॥ [ दरनिर्गतस्यानन्तरं च उद्घाटितवक्षोभृतभवनोत्सङ्गः । जानुपतितोत्थितोऽस्य जल्पति हसित्वा मेघनाद इति सुतः ॥] गृहान्तःस्तम्भद्वयगमनान्तरं दरनिर्गतस्य ततः किंचिद्बहिर्भूतस्यास्य रावणस्य मेघनादः सुतो जानुभ्यां पतितः सन्नुत्थितः । पूर्वकायेनेत्यर्थात् । हसित्वा क्रोधादिति वक्ष्यमाणं जल्पति । कि भूतः । उद्घाटितेनोत्थितत्वात्प्रकाशितेन वक्षसा भृतो व्याप्तो भवनोत्सङ्गो येन स तथा । युद्धरसोत्फुल्लत्वात् । अत एव हृदयोत्साहव्यजनाय तदुद्धाटन मिति भावः ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738