________________
६४४ ]
सेतुबन्धम्
[पञ्चदश
[ ततः कुम्भकर्णनिधनं श्रुत्वा दशाननः प्रहस्ताभ्यधिकम् ।
रोषातपरज्यमानं पुनरपि हसित्वा धुनोति सुखसंघातम् ।।] ततस्तत्पतनानन्तरं प्रहस्तनिधनादप्यधिक दुःखदत्वात्कुम्भकर्णस्य निधनं श्रत्वा दशाननः पुनरपि मुखसंघातं धुनोति । विषादेन' चालयतीत्यर्थः। किंभूतम् । रोषरूपेणातपेन तीक्ष्णत्वात् रज्यमानमरुणीक्रियमाणम् ।।२३।।
विमला-प्रहस्त के निधन से भी अधिक दुःखद कुम्भकर्ण का निधन सुन कर रावण हँसा, तदनन्तर क्रोध से मुखसमूह को लाल कर (विषाद से ) पुनः कॅपाने लगा ।।२३।। अथ पुनरपि रावणप्रयाणमाहणिन्तस्स अ तं वेल अमरिसपरिवढिअस्स भवणुच्छङ्ग । खम्मन्तरवित्थारा ते चिअ वच्छत्थलस्स से ण पहुत्ता ॥२४॥ [ नियंतश्च तद्वेलायाममर्षपरिवधितस्य भवनोत्सङ्गे।
स्तम्भान्तरविस्तारास्त एव वक्षःस्थलस्यास्य न प्रभूताः ।।]
भवनस्योत्सङ्गे यैरेव पूर्वं गतागतं कृतं त एव स्तम्भयोरन्तरस्य मध्यस्य विस्तारा अवकाशास्तस्यां वेलायां निर्यतो युद्धाय प्रस्थितस्य वास्य रावणस्य वक्षःस्थलस्य न प्रभूता न परिमिताः । किंभूताः । (?) स्वल्पपरिमाणा बभूवुरित्यर्थः । अत्र हेतुमाह-किभूतस्य । · अमर्षेण परिवधितस्योत्फुल्लस्य । तथा च वक्षः स्थलोत्फुल्लतया स्तम्भान्तरेण हठानिर्गमनाभावादमङ्गलं सूचितम् ॥२४॥
विमला-भवन के भीतर खम्भों के बीच के जिन अवकाशों से रावण पहिले आया-जाया करता था, वे ही उस समय युद्ध के लिये प्रस्थित रावण के अमर्षपरिवर्धित वक्षःस्थल के लिये पर्याप्त न हो सके-छोटे पड़ गये, अतएव वह कठिनाई से निकल सका ॥२४॥ अथेन्द्रजिद्विज्ञप्तिमाहदरणिग्गअस्स णवरि अ उग्घाडिअवच्छभरिप्रभवणुच्छङ्गो। . जाणुपडिउटिओ से जम्पइ हसिऊण मेहणाओ त्ति सुओ॥२५॥ [ दरनिर्गतस्यानन्तरं च उद्घाटितवक्षोभृतभवनोत्सङ्गः ।
जानुपतितोत्थितोऽस्य जल्पति हसित्वा मेघनाद इति सुतः ॥]
गृहान्तःस्तम्भद्वयगमनान्तरं दरनिर्गतस्य ततः किंचिद्बहिर्भूतस्यास्य रावणस्य मेघनादः सुतो जानुभ्यां पतितः सन्नुत्थितः । पूर्वकायेनेत्यर्थात् । हसित्वा क्रोधादिति वक्ष्यमाणं जल्पति । कि भूतः । उद्घाटितेनोत्थितत्वात्प्रकाशितेन वक्षसा भृतो व्याप्तो भवनोत्सङ्गो येन स तथा । युद्धरसोत्फुल्लत्वात् । अत एव हृदयोत्साहव्यजनाय तदुद्धाटन मिति भावः ॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org