________________
६१०]
सेतुबन्धम
[चतुर्दश
रघुसुतयोः संचरितव्यं संचरणमप्यपहतम् । सर्पाक्रान्तत्वात्स्पन्दोऽपि नादित्यर्थः । शरैः स्यूतमूरुयुगलं यत्र संकीलितत्वेन विह्वलौ, अथ च निश्चल स्थिती चरणौ यत्र । एवम्--निगलिता देहावयवा यत्र । तद्यथा स्यादिति सर्व क्रिया. विशेषणम् ॥२८॥
विमला-सर्परूप बाणों से उनकी जाँघे जकड़ उठीं । चरण स्तम्भित, विह्वल एवं निश्चल स्थित हो गये और उनका चलना-फिरना बन्द हो गया एवं क्रमशः शरीर के सभी अवयव निगडित हो गये ॥२८॥ अथ धनुःपतनमाह--
तो सुरहिपएहि समं पडि विहलन्तपढमसंठिअबाणम् । अद्दिरिउविसज्जिअसरपहरङ्कुसिअवामहत्थाहि धणुम् ।।२६।। [ ततः सुरहृदयः समं पतितं विघटमानप्रथमसंस्थितबाणम् ।
अदृष्टरिपुविसृष्टशरप्रहाराङ्कुशितवामहस्ताद्धनुः ततो जडीभावानन्तरमदृष्टेन रिपुणा विसृष्टो यः शरस्तत्प्रहारेणाङ्कुशितादकुशाकारेण वक्रीकृताद्वामहस्ताद्धनुः पतितम् । रामलक्ष्मणयोरित्यर्थात् । सुराणां हृदयैः समम् । सुराणामपि हृदयं पतितं तेऽप्यचेतना जाता इत्यर्थः। सहोक्तिरलंकारः । धनुः कीदृशम् । विघटमानः प्रथमसंस्थितो बाणो यत्र तत् । शरोऽपि पतित इत्यर्थः ॥२६॥
विमला-तदनन्तर अदृष्ट शत्र (मेघनाद ) के द्वारा छोड़े गये बाणों के प्रहारों से उनका वाम हस्त अङ्कुशाकार वक्र हो गया, अतएव सुरों के हृदयों के साथ-साथ उनका धनुष भी गिर गया और पहिले से उस पर चढ़ा हुआ बाण भी अलग जा गिरा ॥२६॥ अथ दिवि देवस्त्रीणामाक्रन्दमाह-- उद्धाइयो प्र सहसा विवलाअविमाणसडिमपच्छिदेसे । सुरवहुविसमक्कन्दो एक्कम हाहअरसन्ततन्तिच्छाओ॥३०॥ [ उद्धावितश्च सहसा विपलायितविमानतडिमपश्चिमदेशे।
सुरवधूविषमाक्रन्द एकमुखाहतरसत्तन्त्रीच्छायः ॥] सुरवधूनां विषम आक्रन्द उद्धावित उत्थितश्च । कुत्र। विपलायितानां विमानानां तडिमस्य पश्चिमदेशे पश्चाद्भागे। रामावस्थादर्शनार्थ विमानप्रवेशद्वारदेशादधःपश्यन्तीनां युद्ध दिदृक्षया दिवि स्थितानां देवस्त्रीणां रामधनुःपाते सत्याक्रन्दोऽभवदित्यर्थः । आक्रन्दः कीदक । एकमुखमेकदैवाहतानामत एव रसन्तीनां तन्त्रीणामिव छाया यस्येति तन्त्रीध्वनितुल्यमाधुर्यमित्यर्थः ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org