________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[५३५
[ इति यावत्समरसतृष्णः संनयति हर्षितो निशाचरलोकः ।
तावद्रघुपतिदृश्यमानमालीनमेव समन्ततः कपिसैन्यम् ॥] इत्यनेन प्रकारेण समरे सतृष्णो निशाचरलोको हर्षितः सन् यावत्संन ह्यति तावदेव रघुपतिना दृश्यमानं कपिसैन्यं समन्तादालीनमेव संगतमेव । लङ्कायामित्यर्थात् । अतिहठाल्लङ्कावरोधेन कपीनामहंकारित्वमुक्तम् ।।६८॥
विमला-इस प्रकार युद्ध के प्यासे निशाचर जब तक प्रसन्न हो सन्नद्ध हुये, तब तक राम के द्वारा देखी जाती कपिसेना ने चारो ओर से लङ्का को घेर लिया ।।६८॥ अथ लङ्कोपमर्दमाह ---
भग्गारामविनोलं दलिउज्जाणभवणोवणिग्गमलहइम् । प्रोवग्गन्ति पवङ्गा सोहाविणिसणं णिसाअरण परिम् ।।६६॥ [ भग्नारामविलोलां दलितोद्यानभवनोपनिर्गमलघुकाम् ।
अवक्रामन्ति प्लवङ्गाः शोभाविनिदर्शनं निशाचरनगरीम् ।। ] प्लवङ्गाः शोभाया विशेषतो निदर्शनं दृष्टान्तभूतां निशाचरनगरी लङ्कामवक्रामन्ति उपमर्दयन्ति । अत्र प्रकारमाह-कीदशीम् । भग्नैरारामैः साधारणोपवनविलोलां भग्नारामां विलोलां चेति वा । एवम्-दलितैरुद्यानै राजोपवनैर्भवना हैरुपनिर्गमैरिलघुकामल्पीभूताम् । शोभैव विशिष्टं निवसनं वस्त्र यस्या इत्यर्थो वा । 'आरामः स्यादुपवनम्', 'पुमानाक्रीड उद्यानम्' इत्यमरोभयत्र ॥६६॥
विमला-जो लङ्कापुरी शोभा का दृष्टान्त थी उसी को वानरों ने तहसनहस कर डाला। साधारण उपवनों को भग्न कर उसे विक्षुब्ध कर दिया तथा उद्यानों, भवनों एवं द्वारों को दलित कर उसका स्वरूप छोटा कर दिया ॥६६॥ अथ प्लवगानां कोलाहलमाह
अङ्काप्रअरअणिअरं धीरान्तपवआहिवधरिज्जन्तम् । रसइ विसमाअप्रप रोसुद्धाइअपरिट्ठिअं पवनबलम् ॥७॥ [अङ्कागतरजनीचरं धीरायमाणप्लवगाधिपध्रियमाणम् ।
रसति विषमागतपदं रोषोद्धावितपरिस्थितं प्लवगबलम् ।।] अङ्क आगता लङ्कातः प्रत्यासन्ना रजनीचरा यस्य तथाभूतं प्लवगबलं रसति शब्दायते । राक्षसान्दृष्ट्वेत्यर्थात् । किंभूतम् । धीरायमाणेन प्लवगाधिपतिना ध्रियमाणमवेक्ष्यमाणम् । हे कपयः! मा धावत रजनीचरा निर्यान्तु ततो मारयतेत्युक्त्वा निरुध्यमानं वा । अत एव निशाचरानागच्छतो दृष्ट्वा हन्तु रोषेणोद्धावितं पश्चात्सुग्रीव निषेधेन परिस्थितम् । एवम्-विषमं व्यस्तमागतं पदं यस्य तथा । जातिस्वाभाव्यादित्यर्थः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org