________________
त्रयोदश आश्वासः अथ पुरःसराणां द्वन्द्वयुद्धमाह
अह णिग्गअमिलिएहि अल्लीणसमागएहि अ विमुक्करवम् । रअणि भरवाणरेहिं दिण्णं सहिअं च गरुअरणपत्थाणम् ॥१॥ [ अथ निर्गममिलिताभ्यामालीनसमागताभ्यां च विमुक्तरवम् ।
रजनीचरवानराभ्यां दत्तं सोढं च गुरुकरणप्रस्थानम् ॥] अथ मिथः सैन्यसमागमानन्तरं रजनीचरेण वानरेण च द्वाभ्यां द्वाभ्यां गुरुक रणप्रस्थानं रणयात्रोचितं कर्म एकेन प्रहारादिना दत्तमन्येन सोढं च देहस्याग्रे समर्पणादिना प्रतीष्टं चेत्यर्थः। किंभूताभ्याम् । एकः स्वव्यूहानिर्गतः परः पुरो गत्वा मध्ये मिलितः संनिहितस्तथाभूताभ्याम् । एवं च विमुक्तरवं ससिंहनादं यथा स्यादेवमालीनावाश्लेषादेकीभूतो सन्तौ समागतौ समं तुभ्यं संगतौ ताभ्यामित्यर्थः । यद्वा-रजनीचरवानरैरिति संस्कृत्य लङ्कातः सुवेलतश्च निर्गतैरन्तरा मिलितैरिति क्रमेण सर्वं पूर्ववद्वयाख्येयम् । विमुक्तरवमिति सर्व क्रियाविशेषणं वा ।।१।।
विमला-दोनों सेनाओं के समागम के बाद रजनीचरों और वानरों ने दो-दो ( एक राक्षस और एक वानर ) करके महान् रणयात्रोचित कर्म आरम्भ कर दिया । एक पक्ष का एक (अपने व्यूह से ) निकला तो दूसरे पक्ष का एक आगे जाकर मध्य में उससे मिला एवं सिंहनादपूर्वक एक होकर दोनों भिड़ गये तथा एक ने प्रहार किया और दूसरे ने उसे झेल लिया ॥१॥ अथ पश्चादागतानां व्यापारमाहतह प्र पुरिल्लणिवाइअदेहोवरिणिमिअचलणपत्थणतुरिआ। एक्कक्कम अहिगआ थोअंजह पहरलालसा ओसरिआ ॥२॥ [ तथा च पुरोगनिपातितदेहोपरिनिवेशितचरणप्रस्थानत्वरिताः।
एकैकमभिगता स्तोकं यथा प्रहारलालसा अपसृताः ।।]
ते योधा एकैकं परस्परं तथाभिगताः संगता यथा प्रहारलालसा प्रहारसस्पृहाः सन्तः स्तोकमीषदपसृताः पश्चादागताश्च । मिश्रणे सति खड्गादिप्रहारो न घटते इति किंचिद्वयवहिता इत्यर्थः। किंभूताः । पुरोगाणां निपातितम् । परैः प्रहृत्येत्यर्थात् । यद्देहं तदुपरिनिवेशिताभ्यां चरणाभ्यां यत्प्रस्थानं पराभिमुखगमनं तत्र त्वरिताः । स्थानाभावान्मृतकोपरि चरणौ दत्वेत्यर्थः । तेन स्वीयानां मरणं दृष्ट्वाप्यने गता इति शौर्यमुक्तम् । पुरोगैनिपातितं यद्देहं परस्येत्यर्थात्परव्यूहमतिक्रम्य संगता इति दन्धित्वमुक्तमिति वा ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org