________________
५३८]
सेतुबन्धम्
[ द्वादश
गया एवं वायु जिस दिशा में जाता तदनुसार ही वह कोलाहल भी उसी दिशा को जाने लग। ।।७४।। अथ लङ्कापरिखातटभङ्गमाहगिद्दलिअमणिअडाणं देन्ति जहासमा विवरपल्हत्थाणम् । विहडिम सुवेललम्बिअदिसावलन्तोज्झरत्तणं फडिहाणम् ॥७५ ॥ [ निर्दलितमणितटानां ददति यथासन्नविवरपर्यस्तानाम् ।
विघटितसुवेललम्बितदिग्वलन्निर्झरत्वं परिखाणाम् ॥] निर्दलितं प्लवङ्गसंचारात्त्रुटितं मणिमयं तटं यासां तासाम् । अतएव यथासन्नविवरैनिम्नभागः पर्यस्तानामितस्ततो गतानां लङ्कापरिखानां तद्वतिजलानां विघटितात्कपिचक्रमणात्क्वचिद्विशीर्णात्सुदेलाल्लम्बिताः पतिता दिक्षु वलन्तो वक्रीभूय वहन्तो ये निर्झरास्तद्भाव ददति । वानरा इत्यर्थात् । कपिचङ्क्रमण द्विधाभूतनानासुवेलप्रवेशानुस्यूतनानामहीनिम्नप्रदेशेन परिखाजलानि सुवेलमूलमतिक्रम्य गतानि सुवेलावतीर्ण निर्झर बुद्धि जनयन्ति तत्सवं बद्ध मणिमयपरिखातटविदलनद्वारा वानरा निष्पादयन्तीत्यर्थः ।।७।।
विमला-परिखाओं (नगर या गढ़ के बाहर तद्रक्षार्थ खोदी गयी नहर ) के मणिमय तट को बानरों ने विनष्ट कर दिया, अतएव उनमें वर्तमान जल निकटवर्ती निम्न प्रदेशों से इधर-उधर फैल गया और वह ( कपियों के कूदने से ) विशीर्ण सुवेल से गिर कर चारो ओर बहता हुआ, सुवेल से उद्भत निर्झरसा प्रतीत हुआ ।।७।। अथ लङ्कागोपुरातिक्रममाह
जे चिरआल परूढा समराइञ्छिअमहिन्दपप्रणिक्खेवा । ते णवर गोनु रन्तर विहडणचडुलेहि वागरेहि दिडहिया ॥७६।। [ये चिरकालप्ररूढाः समरातिक्रान्तमहेन्द्रपदनिक्षेपाः ।
ते केवलं गोपुरान्तरविघटनचटुलैर्वानरैर्विघटिताः ।।
समरादतिक्रान्तस्य पलायितस्य महेन्द्रस्य ये पदनिक्षेपाश्चरणविन्यासस्थानानि चिरकालमारभ्य प्ररूढा उपचिता: प्रव्यक्ता इति यावत् । ते गोपुरस्य पुरद्वारस्य यदन्तरमभ्यन्तरं तस्य विघटने विमर्दने चटुलैश्चञ्चलानरैः केवलं विघटिता विदिता नान्यै रित्यर्थ । पूर्वं लङ्कावरोधसमये पुरद्वारत एव महेन्द्रः पलायितस्त. च्चरणचिह्नानि सर्वे पश्यन्त्विति रावणे नाद्यापि रक्षितानि, पुनस्तदा वानरैरेव स्वचरणविमर्दैरन्तरितानीति महेन्द्रापकीर्तिः कपिभिरपहस्तिता । तत्र रावणेन प्रतिबन्धः कर्तन शकित इति भावः । केऽपि न लक्षयन्त्विति राक्षसानामप्य गम्येनातिनिगूढेन क्वाचित्कलङ्कान्तःप्रवेशेन पलायितस्य महेन्द्रस्याद्यापि स्थितानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org