________________
आश्वासः ]
रामसेतु प्रदीप - विमलासमन्वितम्
[ ४४७
श्वासर्हतं ताडितम् । मुखस्य नानात्वेनोभयदिशि वर्तमानत्वादिति निःश्वासाधिक्येन चिन्ताधिक्यम् । न च करस्याधेयत्वं लब्धम्, न त्वाधारत्वमिति वाच्यम् । संयोगमात्रस्य तदवस्थाया एव वा विवक्षितत्वादिति भाव: । 'अभिलाषः स्पृहा चिन्ता प्राप्त्युपायानुचिन्तनम्' इति साहित्यदर्पण: ||२२||
विमला - ( नाना मुख और कपोल होने के कारण ) आसन्न मुख और कपोल दोनों पर, दोनों बगल में प्रसरणशील निःश्वासों से प्रताडित एक कर को समान रूप से रख कर रावण सीताप्राप्ति का उपाय सोचने में लग गया ।। २२॥
अथ सप्तभिश्चिन्ताप्रकारमाह
अङ्कागअं सहिज्जइ पओसरइविग्धसं किएण कइबलम् । तं कस्स वि सोअत्थं वलइ अलद्धसुरअं महं चिअ हिअश्रम् ॥ २३ ॥ [ अङ्कागतं सह्यते प्रदोषरतिविघ्नशङ्कितेन कपिबलम् । तत्कस्यापि शोकार्थं वलत्यलब्धसुरतं ममैव हृदयम् ॥ ]
प्रदोषे रजन्यां या रतिः सुरतं तद्विघ्नशङ्कितेन तद्विघ्नशङ्कावता मयाङ्के क्रोडे आगतं कपिबलं सह्यते क्षम्यते । तद्धेतोरलब्धसुरतं सन्ममैव हृदयं यद्वलति सुरताभावाकुलतया यच्चञ्चलीभवति तत्कस्यापि रामस्य वा सीताया वा ममैव वा शोकार्थम् । यदीदानीमीया युध्यामि तदा प्रदोषसुरतं विनितं स्यादिति शङ्कया प्रदोषयुद्धं परिहृतम् । अथापि चेत्तन्न संपत्स्यते तदैतत्कालुष्येण क्रुद्धो रामं हनिव्यामि तदा सीतायाः शोकः । तदभावे सीतामेव व्यापादयिष्यामि तदा रामस्य शोकः स्यात् । अथ स्त्रीकृपया तदपि चेन्न करिष्यामि तदाहमेव विरहदुःखमितोऽपि लप्स्ये इति ममैव शोकः स्यादिति । तथोपायः क्रियताम् । येनैषा वशवर्तिनी भवेदिति भावः । यद्वा- - प्रदोषसुरतार्थिनी मया कपिबलं यत्सह्यते तत्कस्य विशोकार्थं शोकाभावाय, अपि तु न कस्यापि । यतोऽलब्धसुरतं ममैव हृदयं वलति । तथा च यस्य सुरतार्थे क्षमा क्रियते तदलाभेन श्वः प्रातस्तथा रौद्रं कर्म करिष्यामि यथा रामादीनां सर्वेषामुपतापः स्यादिति भावः । यद्वा- - यत्सह्यते तत्कस्य विशोकार्थम् अपि तु न कस्यापि राक्षसस्य । यत्र सुरतमात्रालाभेन ममैव धीरस्य हृदयं व्याकुलीभवति तत्र शत्रुकृतमुपरोधं दृष्ट्वा केषां राक्षसानां हृदयं व्याकुलं न स्यादितीदानीमेव युद्धं युज्यत इति भावः ||२३||
विमला- -रावण अपने मन में सोचता कि यदि रात में ईर्ष्या से कपिसैन्य के साथ युद्ध करूँगा तो रात के सुरत में बाधा पड़ेगी, इसलिये मैं इस समय कपिसैन्य को क्षमा कर दूं, किन्तु सुरतलाभ भी न हुआ जिससे मेरा हृदय व्याकुल हो चञ्चल हो रहा है। इसका परिणाम राम के लिये अथवा सीता के लिये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org