________________
४५८]
सेतुबन्धम्
[एकादश
___ एवम्-अवरुग्णौ दुर्बलौ यौ कपोलो ताभ्यां निर्वलन्स्पष्टीभवन्नायाम ऊधिःक्रमेण देध्यं यत्र तत् वदनं समुद्ववहन्तीम् । अत्रोत्प्रेक्षते--असमस्ताभिरसमाप्ताभिर पूर्णाभिर्वा कलाभिर्दीर्घाकार शशिनमिव । शशिनं कीदृशम् । कतिपयैर्दिवसरासन्नं निकटवर्ति पूरयितव्यं पूरणं यस्य तम् । भावे तव्यः । कतिदिवसरासन्ने निकट एव पूरयितव्यमिति कर्मणि वा। वदनमपि द्वित्रदिनरेव रामसंदर्शनात् कलावृद्ध्या पूरयितव्य मित्यभिसंधिः ।।४४॥
विमला-दुर्बल कपोलों से उनके मुख का विस्तार, अपूर्ण कलाओं से दीर्घाकार चन्द्रमा के समान स्पष्ट दिखायी दे रहा था, जिसकी पूर्ति निकट भविष्य में कतिपय दिनों में होने ही वाली है ।।४४।।
देहच्छविणिव्वलिए भिण्णदरुव्वत्तरोअणासच्छाए। भूसणबन्धणमग्गे लक्खिज्जन्ततलिणतणे वहमाणम् ॥४५॥ [ देहच्छविनिर्वलितान्भिन्नदरोवृत्तरोचनासच्छायान् ।
भूषणबन्धनमाल्लिक्ष्यमाणतलिनत्वान्वहमानाम् ॥] एवम्-भूषणस्य वलयादेवन्धनं योजना तस्य मार्गान् स्थानानि वहमानाम् । भूषणशून्यामित्यर्थः । किंभूतान् । लक्ष्यमाणं तलिनत्वं स्तोकत्वं काश्यं येषां तान् । तत्तदनंकारस्थानानां तत्तदाकारेण कृशीभूय परिणतत्वादिति भावः । पुनः कीदशान् । देहस्य स्वभावसिद्धा या छविगौरता तया निर्वलितान् पृथग्भूय प्रकाशमानान् । अन्यत्र छविमालिन्यादिपिहिता तत्र तत्रैव परं तदभावादुज्ज्वलेति भावः । यद्वा-देहच्छविभिनिर्वलितान् अन्यदेहापेक्षया छविविशेषेण पृथग्भूतानित्यर्थः । बत एव भिन्ना संबद्धा पश्चादीषदुर्तिता या रोचना तया सच्छायानिवेत्युत्प्रेक्षा न्यङ्गया। रोचनोद्वर्तनाादेव कान्ति विशेषं गतानित्यर्थः । अन्यशरीरापेक्षया गौरिमविशेषोदयादिति भावः । भिन्ना पिष्टोद्वतिता लोडिता या रोचना तत्तुल्यकान्तीनिति केचित् । 'तलिनं विरले स्तोके' इति विश्वः ॥४५।।
विमला-शरीर में भूषणधारण के स्थान भूषणशून्य तथा कृश लक्षित हो रहे थे, देह की गोराई से वे स्थान शरीर के अन्य भागों से पृथक् ऐसे उज्ज्वल प्रकाशमान थे मानों रोचना लगाने से कान्तिविशेष को प्राप्त हो गये थे ॥४५॥ दव्वचलणणं उवऊहणलालसप्फुरिअवाहुलअम् ।
आसण्णमिदइ रसेण एक्कसम्म व विसूरन्तिम् ।।४६॥ [ द्रष्टव्यचटुलनयनामुपगृहनलालसस्फुरितबाहुलताम् । आसन्नस्थितदयितां रसेनैकशयन इव खिद्यमानाम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org