________________
५.६]
सेतुबन्धम्
[ द्वादश
सहचरी चक्री प्रभाते चक्रवाकमनु लक्ष्यीकृत्य धावति गच्छति । उत्प्रेक्षतेअभ्युत्थातुमिव चक्रस्यागमनं ज्ञात्वाभ्युत्थानं कर्तुमिव । यथैकस्मिन्नागच्छत्यन्योऽभ्युत्थानं करोतीत्यर्थः । पाठान्तरे-वाति गच्छति 'वा गतिगन्धनयोः' इति धातुः । किं कृत्वा । यामिन्यां रात्रौ यामिन्या वा करणभूतया प्रियतमस्य चक्रस्य वियोगेन दुःखं कथमपि कष्टेन गमयित्वातिवाह्य। कीदृशी। प्रतिरुवती एतज्जिज्ञासानिमित्तं चक्रेण रुते कृते सति प्रतिरवं कुर्वती । प्रतिरोदनं कुर्वतीत्यर्थे प्रतिरुदतीति वा । एतेनोत्कण्ठा सूचिता ॥६॥
विमला-[ सहचरी ] चक्रवाकी [ प्रियतम ] चक्रवाक के वियोग-दुःख को रात में किसी प्रकार ( कठिनाई से ) झेल कर प्रातः ( चक्रवाक की ध्वनि को सुन कर ) उसका आगमन जान कर प्रतिरव करती हुई मानों अभ्युत्थान ( आगे बढ़ कर मिलने ) के लिये उसकी ओर दौड़ पड़ी ॥६॥ अस्ताचलस्यावस्थामाह
जा समल्लिअन्ते अब्भहियोस हिसिहाकरालिअपासम् । अत्थसिहरं मिअङ्क अण्णमअपअट्टचन्दमणिणीसन्दम् ॥१०॥ [ जातं समालीयमानेऽभ्यधिकौषधिशिखाकरालितपार्श्वम् ।
अस्तशिखरं मृगाङ्केऽन्यमयप्रवृत्तचन्द्रमणिनिःस्यन्दम् ।।] मृगाङ्के समालीयमाने संबद्धे शिखरेणैव तिरोहितत्वाल्लीनतां गच्छति वास्ताचलशिखरं जातम् । कीदृक् । अभ्यधिका भिश्चन्द्रस्य संनिधानेन प्रौढाभिरोषधीनां शिखाभिः करा लितं दन्तुरितं पाश्वं यस्य तथाभूतम् । एवम्-अन्यमयमन्यादर्श तथा स्यात्तथा प्रवृत्तश्चन्द्रमणीनां निःस्पन्दो जलनिर्गमो यत्र । चन्द्रस्यातिसंनिहितत्वेन बाहुल्यादिति भावः । चन्द्रम्य लीनतापक्षेऽभ्यधिकानां नानाविधानामोषधीनामित्यन्वयः कर्तव्यः । एवं च-अन्यमयमल्पमित्यर्थः । तथा च-चन्द्रस्यास्तमनादोषधिप्रभाणां दन्तुरितत्वमात्रं न तु प्रौढ़िः, चन्द्रमणीनामपि जलनिगमः पूर्वापेक्षया स्वल्प एव सूर्योदयकालमांनिध्यादिति भावः ।।१०।।
विमला-(अस्ताचल के शिखर से ) चन्द्रमा का सम्बन्ध होने पर (चन्द्रमा के निकट होने के कारण ) ओषधियों की प्रभा अत्यन्त अधिक हो गयी, जिससे अस्त शिखर का पार्श्व भाग [ करालित ] दाँतेदार हो उठा तथा वहाँ चन्द्रमणियों से जल [ अन्यमयम् ] अधिकता से बहने लगा ॥१०॥ अथारुणोदयमाहदूरोण अणक्खत्त अरुणसिहाहअगलत्थिओणअजोलम् । । अस्थमइ व ससिसहिअं उठेइ व उअअपव्वयाहि णहअलम् ॥११॥ [ दूरावनतनक्षत्रमरुणशिखाहतगलहस्तितावनतज्योत्स्नम् । अस्तायत इव शशिसहितमुत्तिष्ठतीवोदयपर्वतान्नभस्तलम् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org