________________
४६४ ]
सेतुबन्धम्
[एकादश
तम् । केवलं प्रतिपन्न: स्वीकृतो मोहो यया तथाभूता सती गतजीवितो मृतस्तद्वनिःसहा निश्चेष्टा सा मयां निषण्णा लिखितेव स्थिताभूदित्यर्थः । रोदनदर्शनादीनां ज्ञानसाध्यत्वेन तदानीं प्रसह्य मोहोदयात्तत्किमपि न वृत्तमिति भावः । वस्तुतस्तु-दर्शनविच्छेदः स्यादिति बाष्पत्यागो न कृतः, दर्शने सति महदुखं स्यादिति दर्शनमपि न कृतम्, कि तु मोहे सति किमपि दुःखं न लब्धव्यमिति मोह एक परं स्वीकृतः, तत एवाचैतन्यान्मह्यां लिखितेव स्थितेत्यर्थः ।।५६॥
विमला-राम के सिर के दर्शन में बाधा पड़ने के भय से सीता ने अश्रुपात नहीं किया, दर्शन से अत्यन्त दुःख होगा इसलिये उन्होंने राम के सिर का दर्शन नहीं किया । अतः मोह को ही उन्होंने स्वीकार किया ( जिसमें कोई भी दुःख न होगा) तदनन्तर ही मृतवत् निश्चेष्ट पृथिवी पर लिखित-सी स्थित रहीं ॥५६॥ अथ मूर्छावस्थामाह
खणणिच्चलणीसासं जाअं मोहन्धप्रारसामच्छाअम् । विरलमिलिअच्छिवत्तं मच्छाहीरन्ततारअं तीअ महम् ॥५७॥ [क्षणनिश्चलनिःश्वासं जातं मोहान्धकारश्यामच्छायम् ।
विरलमिलिताक्षिपत्रं मू ह्रियमाणतारकं तस्या मुखम् ॥] तस्यां मुखं जातम् । कीदृशम् । क्षणं व्याप्य निश्चलो निःश्वासो यत्र, मूर्च्छया प्राणवायोरवरोधात् । एवम्-मोहो ज्ञानाभावस्तद्रूपेणान्धकारेण श्यामा छाया कान्तिर्यस्य, प्रसादाभावात् । एवम्-विरलमल्पं मिलिते किञ्चिन्मुद्रिते अक्षिपत्रे पक्ष्मणी यत्र तथाभूतं सन्मूर्च्छया ह्रियमाणे परावर्तिते तारके दृष्टिगोलके यत्र तादृशम् । मूर्छापूर्वावस्था मोहः । यद्वा मोहोऽज्ञानमात्रम्, मूर्छा तु मनोविक्षोभविशेष इति भेदः ।।५७।।
विमला-( मूर्छा से प्राणवायु के अवरुद्ध हो जाने के कारण ) क्षण भर निःश्वास निश्चल रहा। मोहरूप अन्धकार से मुख की कान्ति श्याम हो गयीं, पलकें थोड़ा-सा मुद्रित हो गयीं तथा पुतलियाँ मूर्छा से फिर गयीं ।।५७।। मूर्च्छया दुःखसंवेदनाभावमाहविसरिअविओअदुक्खं तक्खणपब्भराममरणापासम । जणअतणआइ गवरं लद्ध मुच्छाणिमोलिअच्छीम सुहम् ॥५८।। [ विस्मृतवियोगदुःखं तत्क्षणप्रभ्रष्टराममरणायासम् ।
जनकतनयया केवलं लब्धं मूर्छानिमीलिताक्ष्या सुखम् ॥] मूर्छामुद्रिताक्ष्या जनकपुत्र्या तदानीं केवलं सुखं लब्धम् । ज्ञाने सति दुःखमात्रानुभवादज्ञाने दुःखाभाव एव तदिति भावः । सुखं कीदृक् । विस्मृतं विरहदुःखं यत्र । एवम्-तत्क्षणे प्रभ्रष्ट: प्रस्मृतो रामस्य मरणेनायासः पीडा रामनिष्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org