________________
आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम्
[३३६ मधुमथन मिव । 'विश्रमितव्यभरसहम्' इति सर्वत्र योज्यम् । तथा च त्रैलोक्यस्य विश्रामभरसहो विश्वंभरः, तस्य तदुदरवृत्तित्वात् । एवं भुवनस्य भरेण धारणगौरवेण क्षीणस्य विह्वलस्य मधुमथनस्य शेषमिव । यथा तथाभूत विश्वम्भरस्य शेषनागस्तस्य तदङ्कशायित्वात् । एवं शेषस्य सलिलनिधिमिव । यथा शेषस्य समुद्रः, तस्य तदभ्यन्तरवर्तित्वात् । तथा सरित्पतेरयमपौ ति विश्रामयोग्यता परिमाणप्रकर्षेण भवति । तथा चोत्तरोत्तरमुत्कर्षालंकारेण भुवनापेक्षया विष्णोः, तदपेक्षया शेषस्य, तदपेक्षया सिन्धोः, तदपेक्षया सुवेलस्य परिणामप्रकर्ष इति भुवन विष्णुशेषव्यापकसमुद्राश्रयत्वेन सर्वाश्रयत्वमुक्त सुवेलस्य । एवं च सर्वत्र सुवेलक्रोडवतित्वमेव समुद्रस्येति कटाक्षितम् । भरसहत्वेन च कल्लोलाद्यभिघातानुपप्लुतत्वेन सुवेनस्य दाढर्यमपीति मालोपमालंकारः । 'सहः शक्त' क्षमायुक्ते तुल्यार्थे च सहाव्ययम्' इति कोषः ।। २॥
विमला-यथा भुवन के विश्रामस्थल मधुमथन ( विष्णु ) हैं, भुवनभार से विह्वल मधुमथन का विश्रामस्थल शेषनाग है और शेषनाग का विश्रामस्थल समुद्र है तथैव समुद्र का विश्रामस्थल यह सुवेल गिरि है ।। २ ॥ भूजलाकाशवायुनामाधारतामाह
घरणिहरे अव्वसहं उअहिभरेअन्वपबलणइप्पयहम् । णहमाचवसमत्थं सममारमरम्भिअव्वजोग्गणिमम्बम् ॥ ३ ॥ [ धरणीधर्तव्यसहमुदधिभर्तव्यप्रबलनदीप्रवाहम् ।
नभोमातव्यसमर्थ क्षयमारुतरोद्धव्ययोग्यनितम्बम् ॥] एवं धरण्या धर्तव्ये धारणे सहं शक्तम् । अवष्टम्भभूतत्वात् । एतेन भूम्युत्सेधव्यापकमूलकत्वमुक्तम् । सर्वत्र भावे तव्यः । एवम्-उदधेभर्तव्ये पूरणे प्रबलाः समर्था नदीप्रवाहा यस्येति समुद्रसमान कैकबहुनदीप्रवाहाधारत्वेन समुद्रादप्यधिकपरिमाणत्वेन विस्तीर्णत्वं दीर्घत्वं च । एवं नभसो मातव्ये माने समर्थमिति नभोपेक्षयाप्यतिमहत्त्वेनामूलोत्सेधस्य पूर्वापरायतिस्पदैर्घ्यस्य तिर्यग्दक्षिणोत्तरदिग्व्यापिनानाशिखरत्वेन विस्तारस्य च प्रकर्षः । एवं क्षयमारुतानां रोद्धव्यमवरोधनम् । संचारप्रतिरोध इति यावत् । तत्र योग्यः समर्थो नितम्बो यस्य तम् । एतेन मूलमूर्नोरप्यतिमहत्त्वं दाढ्यं विस्तारो देयं च सूचितम् । प्रलये मिलितानामूनपञ्चाशतोऽप्यनिलानां नितम्ब एव पर्याप्तिरित्यपि । यद्वा कर्मणि तव्यः । तेन धरणीरूपे धर्तग्ये सहम् । एवम् उदधिरूपे भर्तब्य इत्यन्यत्राप्यूह्यम् ॥३॥
विमला-सुवेल गिरि पृथिवी को धारण करने में समर्थ है। वह ऐसी अनेक नदियों के प्रवाह का आधार है, जो अकेली-अकेली समुद्र को भर सकती हैं। वह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org