________________
४४२]
सेतुबन्धम्
[ एकादश
[ दाक्षिण्यमात्रदत्तो जनकसुताभिमुखहृदयदत्तोत्कण्ठः ।
उल्ललति क्षणविलक्षो निजकान्तःपुरमुखेष्वस्य मुखनिवहः ॥] अस्य मुखनिवहो निजकान्तःपुराणां मन्दोदरीप्रभृतीनां मुखेषूल्ललति चञ्चलीभवति । चुम्बनान्निवर्तत इत्यर्थः । क्षणं विलक्षो लज्जयाप्रसन्नः सन् । किंभूतः । दक्षिणो नायकस्तस्य भावो दाक्षिण्यं तन्मात्रेणानुरोधात्, न तु स्नेहात् । दत्तोऽपितः । एवं जनकसुता सीता तदभिमुखेन हृदयेन दत्तोत्कण्ठा यस्मै । सीतामेव द्रष्टुमित्यर्थात् । तथा च दाक्षिण्येन राक्षसीमुखे लग्नोऽपि सीतामुखदर्शनोत्कण्ठया कृष्यमाण: सम्यग्न संबध्यत इत्यर्थः । 'यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ।।' इति कण्ठाभरणम् ।।१३।।
विमला-रावण दाक्षिण्य (दक्षिण-नायक का शिष्टाचार ) के अनुरोध से, मन्दोदरी आदि प्रिया-जन के मुखों पर (चुम्वनार्थ) अपने मुखों को रखता, किन्तु तत्काल सीतामुख के दर्शन की उत्कण्ठा से वह अपने मुखों को क्षणभर लज्जित होता हुआ हटा लेता था ॥१२।। संतापोत्कर्षमाह---
जा अण्णण हसन्तो गमेइ उमछरं विलासिणिसत्थम् । ता दूसहसंतावं अण्णं से सोग्रदुम्मणं होइ मुहम् ॥१४॥ [ यावदन्येन हसन्गमयत्युन्मात्सर्यं विलासिनीसार्थम् ।
तावद्दुःसहसंतापमन्यदस्य शोकदुर्मनस्कं भवति मुखम् ॥ ]
अन्येन मुखेन हसन्यावद्गमयति प्रतारयति रावणः, तावदेवास्य दुःसहः संतापो येन तादृशमन्यन्मुखं शोकेन दुर्मनस्कं भवति । सीतालाभोपायाभावादिति भावः । तथा च तासामीाशान्त्यर्थ मेकेन सकपटं हसतोऽप्यन्यन्मुखमालिन्येन संतापहेतुकेन संगोपनं तिष्ठतीत्यवहित्थाविषादरूपभावसंधिः ॥१४॥
विमला-रावण जब तक एक मुख से हँस कर विलासिनियों की ( सीता के प्रति उत्पन्न ) ईर्ष्या का शमन करता तब तक उसका दूसरा मुख दुःसह सन्ताप से मलिन हो जाता था ।।१४।। सीतामग्न चित्ततामाह--- णिउणहसिआणुविद्धं सीआलम्भावहारणविसंवाअम् । सुणइ ण लक्खेइ फुडं अण्ण विइण्ण हिमओ पिआण दहमहो। १५॥ [ निपुणहसितानुविद्ध सीतालम्भावधारणविसंवादम् ।
शृणोति न लक्षयति स्फुटमन्यवितीर्णहृदयः प्रियाणां दशमुखः ॥] दशमुखः प्रियाणां निपुणं चातुर्येण यद्धसितं तेनानुविद्धं संबद्धं सीतायां लम्भस्य प्राप्तेरवधारणमनेनोपायेन सीतालाभ इति निश्चयस्तस्य विसंवादमन्यथाकरणं साध्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org