________________
३८८]
सेतुबन्धम्
[ नवम
सूर्य की किरणों का दर्शन होने पर भी नष्ट नहीं होता तथा उन कुमुदों के (तोड़ने के ) लिये ( स्पर्धावश ) क्रुद्ध हुये गजराजों में कलह मच जाती है ।1८८॥ शेषनागावष्टम्भतामाह
वलमाणम्मि महमहे जत्थ अ पाउछलन्तरअणज्जोअम् । विअडं फणपन्भारं गाढभरुत्ताणि णिमेइ अणन्तो ॥८६॥ [ वलमाने मधुमथने यत्र च पादोच्छलद्रत्नोड्योतम् । विकटं फणप्राग्भारं गाढभरोत्तानितं नियोजयत्यनन्तः ॥]
अनन्तः शेषः फणाशयाने मधुमथने वलमाने कृतपार्श्वपरिवर्तने सति गाढभरेण विश्वंभर (श्वभार)गौरवेणोत्तानीकृतं विकटं महान्तं फणप्राग्भारं यत्र गिरौ नियोजयति पतनभयेन यन्मूले(न) अवस्थापयतीत्यर्थः । किंभूतम् । पादेषु प्रत्यन्तपवतेषच्छलद्रत्नानामुद्द्योतो यस्मात्तम् । फणस्योत्तानीभावात् । तथा च पादपर्वता अप्यस्यापातालमूलाः। अयं च विश्वंभरा विश्वंभरभारेऽप्यनन्तस्यावष्टम्भ इति भावः ॥
फणानामुत्तानीभावेन तन्मणीनामधःपतितत्वेत तत्कान्तीनां फणाभिरेव व्यवधानादूर्ध्वगमनागमने सुवेलस्यैव पादे मूले उछलनमिति तावदूरमूलकत्वमस्योक्तमिति मदुन्नीतः पन्थाः ॥८६॥
विमला-( शेषशय्या पर सोये हुये ) विष्णु जब करवट बदलते हैं तो उनके महान् भार से शेषनाग का फन उलट जाता है और मणियों के नीचे गिरने से उनका प्रकाश सुवेल पर्वत के पादभाग ( जो पातालव्यापी हैं ) पर पड़ता है। ऐसी स्थिति में शेषनाग ( गिरने के भय से ) अपने फन के अग्रभाग को इस सुवेल के मूल भाग पर टिका देता है ॥८६॥ चन्द्रस्यावस्थामाहदीसइ कडपल्लीणो जस्स अ विवरसरिसुब्भडमअच्छाओ। अवहोवासमऊहो सिहरुज्झरभिण्णमण्डलो व्व मिअङ्को ॥१०॥ [ दृश्यते कटकालीनो यस्य च विवरसदृशोद्भटमृगच्छायः ।
उभयावकाशमयूखः शिखरनिर्झरभिन्नमण्डल इव मृगाङ्कः ॥ ]
यस्य च कटक आलीनो मृगाङ्कः शिखरनिर्झरेण भिन्नं ताडितं मण्डलं यस्य तादृश इव दृश्यते । अत्र बीजमाह-विवरसदृशी उद्भटा मृगस्य च्छाया यत्र । अत एव उभयावकाशे पार्श्वद्वये मयूखा यस्य । तथा च-मृगाङ्कस्य कटकावरुद्धत्वेन मध्य भागः श्यामिकायाः प्रकटतया तुच्छ इव लक्ष्यते । शुभ्रकान्तिस्तु कटका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org