________________
आश्वासः ]
रामसेतुप्रदीप-विमलासमन्वितम्
[ ३६६
विमला-उस समय सूर्य और रावण दोनों की अवस्था समान थी; क्योंकि कपिचरणों से उड़ायी गयी धूल से दोनों समाक्रान्त थे तथा एक अस्ताचल को जाने से निष्प्रभ था तो दूसरा ( रावण ) विनाश के निकट होने से ( निष्प्रभ था) ॥१२॥ अथ रवेरस्तमनमाह
अद्धस्थपिदिणअरो तुङ्गोवासपरिसंठिाअवसेसो। गनणे मुक्कमहिअलो परिप्पवन्ततलिणो झिलिम्मइ दिअसो॥१३॥ [ अर्धास्तमितदिनकरस्तुनावकाशपरिसंस्थितातपशेषः ।
गगने मुक्तमहीतलः परिप्लवमानतलिनः क्लाम्यति दिवसः ॥] मुक्तं भूतलं येन स दिवसो गगने परिप्लवमान इव तलिनस्तनुः क्लाम्यति विशिष्ट प्रकाशाभावात् । कीदृक् । अर्धनास्तमितो जले मग्नो दिनकरो यत्र । एवं तुङ्गावकाशे उच्चप्रदेशे गिरिशिखरादौ परिसं स्थितमातपशेषं यत्र । बहूनामस्तमितत्वादिति भावः । अत्र प्लनवनकर्तृवृश्चिकत्वेनोत्प्रेक्षितस्य दिनस्य रविरर्धमग्नो मूर्धा, उपरि संचरन्नातपशेषः करचरणादिः, गगनं च समुद्रः इति व्यञ्जनयोत्प्रेक्षितम् । प्लवनकर्तापि जलोपर्येव मज्जन्मूर्धा चलत्करचरणादिः क्लाम्यतीति ध्वनिः ॥१३॥
विमला-दिवस भूतल को छोड़ चुका था, सूर्य आधा अस्तंगत हो चुका था, ( गिरिशिखरादि ) ऊँचे स्थानों पर ही कुछ आतप शेष था, अतएव दिवस मानों गगन में तैरता हुभा दुर्बलता को प्राप्त हो क्लान्त हो रहा था ॥१३॥ अथ रविकिरणानामूर्ध्वतामाहविअसेण वणगएण व परंमुहाइपाअवस्स व रविणो। दीसइ थोरकरालो उद्घो मूलणिवहो व्व करपब्भारो॥१४॥ [ दिवसेन वनगजेनेव पराङ्मुखाविद्धपादपस्येव रवः ।
दृश्यते स्थूलकराल ऊो मूलनिवह इव करप्राग्भारः ॥] रवेः करप्राग्भार ऊो दृश्यते । रवेरधोवृत्तितया तेजसामूर्ध्वगमन मिति भावः । क इव । मूल निवह इव । मूलं शिरा । एवं स्थूलः प्रौढः पुजीभूतो वा। करालो मध्ये मध्ये सच्छिद्रः, तुङ्गो वा । प्राग्भारनिवह्योरपि विशेषणम् । रवेः किभूतस्येव । वनगजेनेव दिवसेन पराङ्मुखमन्यतोमुखं प्रेरितस्य सतः पादपस्य वृक्षस्येव । अत्र दिनगजयोः, रविपादपयोः, करशिरःसमूहयोश्च साम्यम् । विदि. क्पातितत्वात्स्थूल:, तुङ्गतया विरलत्वेन च करालः शिरास्तोम एव दृश्यो न तु वृक्ष इति किरणा एव दृश्यन्ते, न रविरिति भावः ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org