________________
माश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[४१७
अत एव भरेण ज्योत्स्नागौरवेण विस्तारितपत्रमिव । अयमर्थः -दिवाजातमुद्रमपि कुमुदं स्वभावादेव निशि किंचिद्विकसितम् । अथ वर्मलाभेन ज्योत्स्नया पूरितत्वात्तद्भरेण दलानामधोगमनादुत्फुल्लमासीदित्युन्मीलनकारणस्य वा तद्धतुकस्य वा स्पन्दस्य भरहेतुकत्वोत्प्रेक्षया मुकुलनसमकालमेव विकासोत्कर्ष इति व्यज्यते । अन्योऽपि वयःपरिणामेनेषदुन्मील: कम्पत इति ध्वनिः ।।५०।।
बिमला-(दिन में ) जो कुमुद मुंदा हुआ था वह रात में किंचित् विकसित हो गया और इस प्रकार मार्ग मिलने से प्रचुर ज्योत्स्ना से भर गया, जिसके भार से उसकी पंखुड़ियाँ नीचे की ओर झुक गयीं तथा बह पूर्णरूप से उत्फुल्ल हो स्पन्दनशील हो गया ॥५०॥ वृक्षावस्थामाह --- पवणाम्पिअसिहरा गमोणिअत्तन्तविडवविहुअच्छाआ। ससिकिरणपरिक्खित्ता जोहावेअवडिआ पवन्ति व रुक्खा ।। ५१ ।। [पवनाकम्पितशिखरा गतापनिवर्तमानविटपविधूतच्छायाः ।
शशिकिरणपरिक्षिप्ता ज्योत्स्नावेगपतिताः प्लवन्त इव वृक्षाः ॥] ___ शशिकिरणः परिक्षिप्ता वेष्टिताः, अत एव ज्योत्स्ना नवसलिलमिव तस्या वेगे प्रवाहे पतिताः सन्तो वृक्षाः प्लवन्ते इव प्लवनं कुर्वत इव । किंभूताः । पवनेनाकम्पितं शिखरं येषाम् । अत एव । गतैः, अथापनिवर्तमानैरागतैविटपैविधताः कम्पिताश्छाया येषां ते। अन्योऽपि प्रवाहे पतित: करचरणादिव्यापारेण प्लवत इति वृक्षाणां शाखाकम्पहेतुकच्छायाचाञ्चल्येन प्लवनमुत्प्रेक्षितमिति ज्योत्स्ना. बाहुल्यम् ॥५१॥
विमला-वृक्ष शशिकिरण से वेष्टित हैं, पवन से उनका अग्रभाग कुछ कम्पित है, शाखाओं के हिलने-डुलने से छाया चञ्चल हो रही है, इस प्रकार मानों वे ( वृक्ष ) ज्योत्स्ना के प्रवाह में पड़कर तैर रहे हैं ॥५१॥ पुनर्योत्स्नामाहघरमणिमऊहभिण्णो लिलाहअबहलचन्दणरसच्छाओ। उद्देसुल्ललिअतमो दीस इ विवरविसमो व्व जोहाणिवहो ।। ५२ ।। [ गृहमणिमयूखभिन्नो सलिलाहतबहलचन्दनरसच्छायः।
उद्देशोल्लुलिततमो दृश्यते विवरविषम इव ज्योत्स्नानिवहः ॥] गृहमणीनां दीपानां मयूखैभिन्नः संगतः सन् । गृह इत्यर्थात् । सलिलेनाहतस्य सिक्तस्य चन्दनरसस्येव च्छाया कान्तिर्यस्य पीतधवलत्वात् । तथाभूतो ज्योत्स्नानिवहः । उद्देशे क्वचित्क्वचिदुल्लुलित विपर्यस्य स्थितं तमो यत्र, शाखापत्रादिच्छायारूपत्वात् । तथाभूतः सन् । विवरैनिम्नप्रदेशैविषमो विसदृश इव दृश्यते । बहि
२७ से० ब०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org