________________
४०६ ]
सेतुबन्धम्
[ दशम
विमला - वृक्षों के घने पत्तों में तिमिर स्थित है, अतएव मनोहर किसलय तिमिराच्छन्न होने से मलिन से हो रहे हैं । कुसुम, किसलयों में स्थित ( किन्तु अदृश्य ) हैं एवं वृक्षों का ज्ञान केवल सौरभ से ही होता है ॥२७॥
अथ सर्वत्र तिमिरस्याभिव्याप्तिमाह-
मेलविसव्वदिसं श्राणण्णम्मि वि पण ठण आलोअम् । सूएश्रयमहिधलं जाअं सूरवडणाणुरूअं तिमिरम् ||२८|| [ मेलित सर्व दिगासन्नेऽपि प्रनष्टनयनालोकम् । सूचयितव्यमहीतलं जातं सूरपतनानुरूपं तिमिरम् ॥ ]
मेलिता एकीकृताः सर्वा दिशो येन, भेदज्ञापकचिह्नाभावात् । आसन्नेऽपि प्रनष्टो नयनस्यालोकस्तेजो, नयनेनालोको दर्शनं वा यस्मात् विषयतिरोधाय - कल्वात् । अत एव सूचयितव्यं चक्षुरन्यप्रमाण वेदनीयं स्मर्तव्यं वा महीतलं यत्र तादृशं तिमिरं सूर्य पतनस्यानुरूपं योग्यं जातम् । यथा सूर्ये सत्यत्यन्तप्रकाशोत्कर्षहेतुरत्यन्तमन्धकारापकर्ष, तथा तत्पतने सत्यत्यन्तप्रकाशापकर्ष हेतुरत्यन्तमन्धकारोत्कर्षः । किं वा सूर्यपतनं प्रलय इति तदनुरूपमिति भावः ||२८||
विमला - तिमिर ने सब दिशाओं को एक कर दिया । नेत्र से निकटवर्ती वस्तु भी नहीं दिखायी देती है । भूतल का ज्ञान नेत्र से नहीं: अपितु अन्य साधन से ही हो पाता है । सूर्य के रहते अन्धकार का जितना अपकर्ष था, अब सूर्य का पतन होने पर उसका उतना ही उत्कर्ष है ||२८||
अथ गाढतामाह —
ओक्खण्डेश्रव्वदढों पसरइ उक्खम्मिअव्ववहलग्धाश्रो ।
अवलम्बिअव्वजोगो ससिणा भेअव्वसंघओ तमणिवहो ॥ २६॥ [ अवखण्डयितव्यदृढ: प्रसरत्युत्खनितव्य बलोद्धातः । अवलम्बितव्ययोग्यः शशिना भेत्तव्य संहतस्तमोनिवहः ॥ ]
?
तमोनिवहः प्रसरति । कीदृक् । वृक्षादिवदवखण्डयितव्यः सन्दृढः । तथा च नावखण्डयितव्यः । पृथिव्यादिवदुत्खनितव्यः सन् बहलोद्धातो निबिडावयवसंस्थानः तथा च नोत्खनितव्यः । अवलम्बितव्यः सन् भित्त्यादिवद्योग्यो यदवष्टम्भेन स्थीयते । शशिना भेत्तव्यः सन् वज्रादिवत्संहतो निःसंधि मिलितः तथा च तेनापि न भेत्तव्य इति भावः । भेदनं द्विधाकरणम् तेन तिर्यक्छेदनरूपादवखण्डनाद्भेदः ॥ सर्वत्र कर्मणि तव्यः । अवखण्डयितव्येऽवखण्डने वृक्षादिवदृढ इत्येवंरूपेण सर्वत्र भावे वा । शशिना परं भेत्तव्यः संहतो मिलितश्चेत्यपि कश्चित् । संप्रदायस्तु अवखण्डयितव्यः सन् दृढः इति क्रमेण व्याचष्टे ||२६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org