________________
आश्वासः]
रामसेतुप्रदीप-विमलासमन्वितम्
[४११
__ विगलितो मुग्धस्वभावो बालत्वं यस्य तत्प्रौढं निशाकरविम्बं नभोलङ्घने क्षम भवति । कीदृक् । जातं स्थाम स्थैर्य येषां तैः किरणैराहतं ताडितं सदुत्खातमुत्पाटितं तिमिरं येन । अत एव जरठायमान वर्धमानं चिरंतनं वा सद्धवलम् ।।३८॥
विमला-चन्द्रमण्डल का बालत्व समाप्त हो गया। वह प्रौढता को प्राप्त होकर नभ को लाँघने में समर्थ हो गया और प्रौढ किरणों से उसने तिमिर का विनाश कर दिया। इस प्रकार क्रमशः बढ़ता हुआ वह धवल हो गया ।।३।। अथ ज्योत्स्नाप्रौढिमाहतहपरिसंठिअसेलं विस्थिण्णदिसं तहुज्जुअणइप्पवहम् । खन्तूण व उक्किणं ससिगा तमसंचरं पुणो वि महिअलम् ॥३६॥ [ तथापरिसंस्थितशैलं विस्तीर्णदिक्तथर्जुकनदीप्रवाहम् ।
खनित्वेवोत्कीणं शशिना तमःसंचयं पुनरपि महीतलम् ॥] शशिना तमःसंचयं खनित्वा महीतलं पुनरप्युत्कीर्णमिव काण्डीकारितमिव । कीदृक् । तथा पूर्ववत्परिसंस्थिताः शैला यत्र । एवम् तथा पूर्ववदेव विस्तीर्णा दिशो यत्र । तथा पूर्ववदेव ऋजवो नदीनां प्रवाहा यत्र तादृशम् । तथा च यथा काष्ठादिकं खनित्वानपेक्षितभागमपसार्य करचरणचिबुकादिमत्प्रतिमादिकं क्रियते, तथा तमोलिप्तमपि गिरिगहनगृहादिसहितं भूतलं तिमिरमपसार्य तत्तदवयवसंस्थान विशिष्टं शशिना प्रकाशितमिति भावः । अथवा-'तथापरिसंस्थितशैलम्' इत्यादि क्रियाविशेषणम् । तथा च महीतलं खनित्वेव तमःसंचय उत्कीर्णः क्षितिगर्भ निक्षिप्त इत्यर्थः । तत एवावरकाभावाच्छैलादीनां प्रकाश इत्यभिप्रायः ॥३६॥
विमला-चन्द्रमा ने तम के समूह को खोद कर दूर करके महीतल को फिर से उत्कीर्ण-सा कर दिया और उस पर पर्वत पूर्ववत् संस्थित हो गये, दिशायें पूर्ववत् विस्तीर्ण हो गयीं एवं पूर्ववत् नदियों के ऋजु प्रवाह सुशोभित हो गये ॥३६॥ पुनश्छायामेवाहबहलाम्म वि तमणिवहे णिव्वालेऊण सच्चविअरूवाओ। अणबन्धन्ति ससिअरा घेत्तंण चअन्ति पाअवच्छाआओ ॥४०॥ [ बहलेऽपि तमोनिवहे निर्वाल्य सत्यापितरूपाः ।।
अनुबध्नन्ति शशिकरा ग्रहीतुं न शक्नुवन्ति पादपच्छायाः ॥]
शशिकराः पादपानां छायाः कर्माणि ग्रहीतुं स्रष्टुं नाशयितुमित्यर्थः । न शक्नुवन्ति वृक्षतले तासामतिघनत्वात् । किं तु-अनुबध्नन्ति वेष्टयन्ति । किंभूताश्छायाः । बहलेऽपि तमोनिवहे निर्वाल्य पृथक्कृत्य सत्यापितं रूपं यासां ताः । ग्राह्यत्वेन स्थिरीकृतरूपा इत्यर्थः । यथा कोऽपीश्वरो धाटिकया विद्रावितारिसैन्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org